________________
रसगङ्गाधरः।
___३८५
शास्त्रीये लौकिकस्य यथा
'कृत्वा सूत्रैः सुगूढाथैः प्रकृतेः प्रत्ययं परम् ।
आगमान्भावयन्भाति वैयाकरणपुंगवः ॥' अत्र राजव्यवहारस्य । एवं शास्त्रान्तरव्यवहारेऽपि बोध्यम् । इयं चालंकारान्तरेषु बहुष्वानुगुण्येन स्थिता । यथा
'स्थितेऽपि सूर्ये पद्मिन्यो वर्तन्ते मधुपैः सह ।
अस्तं गते तु सुतरां स्त्रीणां कः प्रत्ययो भुवि ।' अत्र समर्थ्यत्वेन स्थितार्थान्तरन्यासानुगुण्यमाधत्ते ।
'उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥' इह समर्थकत्वेन । 'व्यागुञ्जन्मधुकरपुञ्जम गीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात् । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥'
अत्र हि परकृतनिजस्तुत्याकर्णनकंधरानमनादि विशेषणसाम्योत्थापितया समासोत्त्या सज्जनव्यवहाराभिन्नतया स्थित एव तरुव्यवहारे भूशाखासंबन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूपहेतृत्प्रेक्षा संभवति । अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकतापत्तेः । इत्युस्प्रेक्षानुगुणा समासोक्तिः । एवम्
'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः ।
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥' इत्यत्रापि खामिसेवकव्यवहारमूला सुधालेपनोत्प्रेक्षा । अमुयैव दिशा अचेतनव्यवहारे प्रकृते चेतनव्यवहारसंबन्धिखरूपहेतुफलोत्प्रेक्षायां चेतनव्यवहारे प्रकृते चाचेतनव्यवहारसंबन्धिखरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम् ।
इति रसगङ्गाधरे समासोक्तिप्रकरणम् । थीभावापन्नार्थबोधकतारूपमित्यर्थः । प्रकृतेः प्रातिपदिकादितः अविद्यायाश्च । परमप्रिमं भिन्नं च । प्रत्ययं तत्संज्ञकं ज्ञानरूपं च कृता । आगमान् तत्संज्ञकान् उपनिषदनश्चाद्यर्थः (१) । राजपक्षे त्वर्थ ऊह्यः। प्रत्ययो विश्वासः । राजप्रियाश्चन्द्रप्रियाः। दिशा रीत्या। खरूपहेतुफलानां त्रयाणामुत्प्रेक्षायामित्यर्थः । एवमग्रेऽपि ॥ इति रसगडाधरमर्मप्रकाशे समासोकिप्रकरणम् ॥
३३ रस०