________________
३८८
काव्यमाला। - यत्तु कुवलयानन्दकार आह-"श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषाभावासरिकरत्वोपपत्तिः । यथा-'क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा' इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये" इति । तदप्यसत् । यो हीममलंकारं दोषाभावान्तःपातितयालंकारमध्यावहिर्भावयति स किं त्वदुक्तश्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायविशेषणेषु विच्छित्तिविशेषं मन्यते न वा । आधे दोषाभावमात्रेण विच्छित्तिविशेषस्थालंकारप्रयोज्यस्यालंकारमन्तरेणानिष्पत्तेः सिद्धं सर्वत्र परिकरस्यालंकारत्वम् । द्वितीये अन्यत्रेव यमकादिष्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वात् । तथा हि- ।
तैव साफल्येन श्लेषादेस्तदपवादलादिति भावः । विशेषाभावादिति । तदापत्तरित्यर्थः । जायमानतदर्थं तद्विन्यासस्यावश्यकवं तत्रेतीति शेषः । परिकरेति । परिकरस्थालंकारखोपपत्तिरित्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः । 'साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्' इति क्वचित्पाठः । क्षि. तीति। यमकोदाहरणमिदम् । प्रशस्तवनयुक्तेन गोवर्धनेन आक्षकेणेन्द्रेणेत्यर्थः । 'अहिर्वृत्रासुरे सर्प' इति विश्वः । यमकादीति । तद्रूपशब्दचित्रेत्यर्थः । सर्वत्र श्लेषादौ तदन्यत्र च । तेन सुवचत्वादिति । अत्रेदं चिन्त्यम्-दोषाभावमध्ये एनमन्तर्भावयता एकविशेषणे चमत्कारविशेषस्यानङ्गीकारात्त्वदुदाहरणासंगतिः । यदि खनुभवबलात्तत्तदोषाभावकृतचमत्कारादप्यधिकचमत्कारोऽस्ति वाद्यनङ्गीकारस्त्वप्रयोजक इत्युच्यते तर्हि समं प्रकृतेऽपि । किं च अपि तु पोषायेति वदता भवतापि श्लेषयमकादिषु विशेषणस्य चमत्कारिताभ्युपेतैव । चमत्कारातिशयजनकतारूपाया एव पुष्टेः काव्ये स्वीकारात् । यदि तु विवक्षितार्थबोध एव पोषः विवक्षितार्थबोधप्रयोजकानुपादानवं च पुष्टत्वं तथाप्यापत्कालेऽक्रियमाणं मृत्तिकाशौचादि यथा न दोषाय नापि लोकनिन्दायै, क्रियमाणं चाधिकस्तुतयेऽधिकफलाय च भवति तथा यमकादिषु पुष्टखमक्रियमाणं न दोषाय, क्रियमाणं अधिकचमत्कारायेति वक्तुं शक्यम् । न च कवेः स्तुतये भवतु, न चमत्कारायेति वाच्यम् । निये फलस्यापि स्वीकारेण तदतिशयस्य तेन जननवदुपपत्तेः । इह तु फलं चमत्कार एव । अयि लावण्येत्यत्र तु पुष्टखमक्रियमाणं दोषाय, क्रियमाणं तु विवक्षितार्थाबाधकरूपपोषायैव नाधिकचमत्काराय । यथाऽनापद्यक्रियमाणं मृच्छौचादि दोषाय, क्रियमाणं तु नाधिकफलायेत्यतो यमकपर्यन्तानुधावनम् । वस्तुतः संध्याद्यकरणस्य दोषत्वेऽपि तदभावो न दोषाभाव. मात्रम् , अपि तु फलायापि, एवं यमकाद्यतिरिक्तेऽपि साभिप्रायैकविशेषणोपादाने दोषला