________________
रसगङ्गाधरः।
३६१ यत्र तु सा नास्ति तत्र 'पुत्रेण सहागतः पिता' इत्यादौ न सहोक्तिरलंकारः । __ अत्र विचार्यते—'केशैर्वधूनां' इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम् । अतिशयोक्तेरेवात्र चमत्कृत्याधायकत्वेन सहोक्तेर्नाममात्रत्वात् । 'तव कोपोऽरिनाशश्च जायते युगपन्नृप' इत्यस्मादतिशयोक्त्यलंकारात् 'तव कोपोऽरिनाशेन सहैव नृप जायते' इत्यत्र गुणभावमात्रकृतवैलक्षण्येऽपि विच्छित्तेरविशेषात्तस्यैव चालंकारविभाजकत्वात् । न च सादृश्यानुप्राणितस्य रूपकादेरप्यपृथग्भावापत्तिः । 'निशाकरसमानोऽयमयं साक्षान्निशाकरः' इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूकत्वात् । अन्यथा तत्प्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्तेः । अपि च सादृश्यप्रयुक्तरूपकादिषु सादृश्यस्य गुणत्वाच्चमत्कृतिविश्रान्तिधामभ्यो रूपकादिभ्यो यथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्त्याविर्भूतायाः कार्यकारणपौर्वापर्यविपर्ययात्मिकाया अतिशयोक्तेः सकाशादस्याः सहोक्तेरपृथग्भाव एवोचितः । नन्वेवं सति सहोक्तनिर्विषयत्वं स्यात् । सहोक्त्यन्तरस्याप्यभेदाध्यवसानरूपातिशयेन कवलीकारादिति चेत् न । अभेदाध्यवसानमूलायां हि सहोक्तावभेदाध्यवसानेन सहोक्तिरुपस्क्रियत इति न गुणेन प्रधानस्य तिरस्कारः । अपि तु प्रधानेन गुणस्येत्युक्तदिशा सावकाशैव सहोक्तिः । गुणप्रधानभावश्च निराग्रहैः सूक्ष्मदृशावधानीयः । किं च परस्परभेदाध्यवसानमात्रमतिशय एव । नातिशयोक्तिः ।
रिति । उक्तरूपेत्यादि । एवमग्रेऽपि । विच्छित्तेश्चमत्कृतेः । तस्यैव विच्छित्तिविशेषस्यैव । अपृथगिति । उपमात इत्यादिः । इत्यादाविति । मिथ इति शेषः । अन्यथा तद्वैलक्षण्येऽप्यपृथग्भावे । तत्प्रयुक्तस्य व्यतिरेकस्येति । निशाकरसमानत्वेन वर्णितापेक्षया साक्षानिशाकरत्वेन वर्णिते भासमानस्य साक्षान्निशाकरत्ववर्णनप्रयुक्तस्य व्यतिरेकस्येत्यर्थः । सहभावोक्त्याविरिति । अनेनास्या गुणत्वं दर्शितम् । अमेदाध्यवसानेति । इदमुपलक्षणं श्लेषमूलामेदाध्यवसानस्यापि । हि यतः । उपस्क्रियते संस्क्रियते । ननु स्यादेवं यदि सहोक्तेः प्राधान्यमतिशयोक्तेश्च गुणत्वं निश्चितं स्यात् । तदेव तु न । वैपरीत्यस्यापि संभवात् । अत आह-गुणेति । श्लेषमूलामेदाध्यवसानमूलायामपि सावकाशलमाह-किं चेति । तस्य मिथोऽमेदाध्यवसानस्य । सा तु
३१ रस०