________________
३६०
काव्यमाला। चित्यात् । 'पुत्रेण सह पितुरागमनम्' इत्यादौ कारकविभक्तेः प्राबल्याच । अन्यथा 'षष्ठी शेषे' इत्यत्रापि विशेषग्रहणापत्तेः । तस्माद्यथा 'हेतौ तृतीया' इत्यादिशास्त्रं हेतुशक्तिग्राहकमेवं 'सहयुक्तेऽप्रधाने' इत्यप्रधानशक्तिग्राहकम् । यथैव तत्र प्रकृत्यर्थस्या भेदेन विभक्त्यर्थेऽन्वयस्तथेहापि शक्यो वक्तुम् । धर्मिशक्तावपि कर्मत्वादीनामिवाप्राधान्यस्यापि शाब्दत्वमव्याहतमेव । षष्ठीस्थले तु विशेषणशब्दाभाकान्नैवमिति स्फुटमेव वैलक्षण्यम् । एतेन ‘अप्रधानग्रहणं शक्यमकर्तुम्' इति वदन्तो मनो. रमाकाराः परास्ताः । उक्तप्रकारेण सार्थक्यसिद्धौ मुनिवचनस्य वैयर्थ्यकल्पनाया अन्याय्यत्वात् । न च पुत्रेण सहागतः पिता' इत्यादौ पुत्राभिन्नाप्रधानसहित इति बोधस्याप्रामाणिकत्वान्नोक्तार्थसिद्धिरिति वाच्यम् । 'दण्डेन घटः' इत्यादौ दण्डजन्यतावान् घट इति हि सर्वजनीने बोधे 'हेतौ तृतीया' इति मुनिवचनावलम्बेन दण्डाभिन्नहेतुको घटः इति बोधं वदता भवतैवास्याः सरणेर्दर्शितत्वात् । 'भावप्रधानमाख्यातं' इत्याद्यनेकैर्मुनिवचनस्तत्र तत्र त्वत्कृतबोधवैपरीत्यस्यानुपपत्तेश्चेति कृतमप्रसक्तविचारेण ।
प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयतोपमानतयोनिर्णायके इत्युक्तत्वादिह न ताभ्यां तयोनिर्णयः । प्रकृतयोरपि साहित्यसंभवात् । किं तु प्राधान्याप्राधान्याभ्यामिति । हृद्यत्वं चास्या अतिशयोक्तिकृतमित्युक्तम् ।
इत्यर्थः। नन्वेवमप्युक्तार्थतात्पर्याग्राहकवेन तदावश्यकमत आह-अन्यथेति । एवमपि तदङ्गीकारे । आपत्तेरिति । विशेष्ये षष्ठीवारणतात्पर्यग्राहकलेनेति भावः । उपसंहरति-तस्मादिति । तत्र हेतुतृतीयायाम् । नन्वप्रधाने इत्युक्तेः समप्रधानले शक्तिरिति धर्मिणः शब्दवं न तस्येति प्रागुक्तं विरुध्येत अत आह-षष्ठीति । एतेनेत्यस्यार्थमाह-उक्तेति । कृतमिति। अत्रेदं सर्वं चिन्त्यम् । अप्रधानग्रहणप्रत्याख्यानपरभाष्यविरोधापत्तेः अप्रधानभृत्यैः सह गतो राजेत्यत्र तृतीयानापत्तेश्च । राज्ञा सह सेना गच्छतीत्यादौ तृतीयापत्तश्च अन्तरङ्गत्वस्य दुर्वचलेन तथोक्तरसांगत्याच्च । बोधस्यान्यथा इष्यमाणसाच्च । सहोक्तिलक्षणं च यत्रैकस्य शाब्दः क्रियान्वयोऽपरस्य सहार्थबलादार्थः सा सहोक्तिरिति । काव्यप्रकाशकृतामेवमेवोक्तिः । स्पष्टं चेदं सर्व मजूपायाम् । साविति शेषः [१] । अस्याः सहोतेः । सा अतिशयोक्तिः । अतिशयोक्ते