________________
३६२
काव्यमाला।
तस्य श्लेषादावपि सत्त्वात् । सा तूपमानेनोपमेयस्य निगरणम् । एवं च 'वर्षन्त्युन्मीलन्तो निमीलन्तः' इत्यादिष्वेकेनापरनिगरणाभावान्नातिशयोक्तिगन्धोऽपि । अतिशयमानं तु प्रायशः साधारणधर्माशे बहूनामलंकाराणामुपस्कारकम् । नहि 'शोभते चन्द्रवन्मुखं' इत्यादौ चन्द्रमुखशोभयोवस्तुतो भिन्नयोरभेदाध्यवसानमन्तरेणोपमा समुल्लसति । तस्मात् 'कार्यकारणपौर्वापर्यविपर्ययमूलः सहोक्तेरेकः प्रकारः' इति सर्वखकारादीनामुक्तिराग्रहमूलैव । अभेदाध्यवसानमूलस्तु प्रकारो भवतु नाम सहोक्तेविषयः । यदि तु दीपके तुल्ययोगितायां चोपमानोपमेययोः प्राधान्येन क्रियादिरूपधर्मान्वयः । इह तु गुणप्रधानभावेनैवेति विशेषः सन्नपि विच्छित्तिविशेषानाधायकतया नालंकारान्तरताप्रयोजकः । अपि तु तदवान्तरभेदतायाः इति विभाव्यते, निरस्यते च प्राचीनमुखदाक्षिण्यं तदा निविशतामियमपि क्लुप्तालंकारेष्वेव । किंचिद्वैलक्षण्यमात्रेणैवालंकारभेदे वचनभङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्गादिति । सत्यं, गुणप्रधानभावालिङ्गितस्य सहभावस्यालंकारान्तराद्विच्छित्तिविशेषमनुभवन्तः प्राचीना एव/ सहोक्तेः पृथगलंकारतायां प्रमाणम् । अन्यथा एवंजातीयोपप्लवेन बहु व्याकुलीस्यात् । नैव प्रमाणीकुर्महे वयं मृषा मुकुलितविलोचनान्प्राचः । निवेश्यतां चेयमलंकारान्तरभवनोदरं वराकी इति तु प्रभुतैव केवला । न सहृदयत्वम् ।
अतिशयोक्तिस्तु । श्लेषोदाहरणमाह-वर्षन्तीति । केवलमेदाध्यवसानोदाहरणमाह-उन्मीलन्त इति । एकेनेति । उपमानेनोपमेयस्येत्यर्थः । गन्धोऽपि लेशोऽपि । नैवमत्रैव किं वन्यत्रापीत्याह-अतीति । क्वचिदनुगामिन्यभावादाह--प्रा. यश इति । उपसंहरति-तस्मादिति । निर्विषयत्वं परिहरति-अमेदेति । इदमुपलक्षणं प्राग्वत् । इह तु सहोकौ तु । तदवान्तरेति । अलंकारावान्तरेत्यर्थः । निरस्यते त्यज्यते । दाक्षिण्यं संकोचः । इयमपि अवशिष्टा द्विविधापि । किंचिदिति । उक्तरीत्या अन्वयतेत्यर्थः (१) । वचनभङ्गीनां वचनरचनानाम् । प्राचीना एवेति । एवं च एतदनुभवबलेनैव गुणप्रधानभावकृतविच्छित्तिविशेषमाश्रित्य सर्वखकाराद्युक्तः कार्यकारणपौर्वापर्यविपर्ययमूलोऽपि सहोक्तेः प्रकार आश्रयणीय इति तत्खण्डनं प्रागुक्तं चिन्त्यमिति बोध्यम् । अन्यथा तदनुभवप्रामाण्यानङ्गीकारे । व्याकुलीति । प्रागुपपा