________________
रसगङ्गाधरः।
३५७
अस्य चालंकारस्य सादृश्यगर्भत्वात् सादृश्यस्य च त्रिविधधर्मोत्थापितत्वात् अत्रापि तत्प्रकारानुगमो बोध्यः ।
'अरुणमपि विद्रुमद्वं मृदुलतरं चापि किसलयं बाले ।
अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ॥' अत्रारुण्यम्रदिमानावनुगामिनौ । __ बिम्बप्रतिबिम्बभावापन्ने यथा—'जलजं ललितविकासं सुन्दरहासं तवाननं हसति' । अत्र हासविकासयोर्बिम्बप्रतिबिम्बभावः । लालित्यसौन्दर्ययोः शुद्धसामान्यता । श्लेषोपात्तं जडजत्वं खाश्रयापकर्षहेतुः ।
एवं सादृश्यनिषेधालीढो व्यतिरेको निरूपितः । अभेदालीढोऽप्येष संभवति यथा
'निष्कलङ्क निरातङ्क चतुःषष्टिकलाधर । सदापूर्ण महीप त्वं चन्द्रोऽसीति मृषा वचः ॥'
इति रसगङ्गाधरे व्यतिरेकप्रकरणम् । अथ सहोक्तिःगुणप्रधानभावावच्छिन्नसहार्थसंबन्धः सहोक्तिः ॥
हृद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकृदुक्तम् । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्यानुप्राणने भवतीति वदन्ति ।
रूपकोपमाया आद्यार्धे उपमेयस्य पितुरुत्कर्षिका । द्वितीयार्धेऽनन्वयोपमा तादृशमातुस्तथा । तृतीयार्धे शुद्धोपमैव तादृश्यस्य पितुः खस्य चापकर्षिकेत्यर्थः । उपमा एवेति । एवेन रूपकादिव्यावृत्तिः । त्रिविधेति । अनुगामिबिम्बप्रतिबिम्बभावापन्नशुद्धसामान्यरूपेत्यर्थः । तृतीयस्यापीदमेवोदाहरणमित्याह-लालित्येति । स्वाश्रयेति । कमलेत्यर्थः। 'अभेदनिषेधालीढोऽपि' इति पाठः। यथेति । चन्द्रस्तु सकलङ्कः (उपरुगि) सातङ्कः षोडशकलः सदा न पूर्ण इति व्यतिरेकः ॥ इति रसगङ्गाधरमर्मप्रकाशे व्यतिरेकप्रकरणम् ॥
सहोक्तिं लक्षयति-अथेति । गुणेति । गुणप्रधानभावावच्छिन्नयोरर्थयोः सहाथसंबन्ध इत्यर्थः । तच्च हृद्यलं च श्लेषेति । श्लेषमूलकेत्यर्थः । केवलेति । निगीर्या