________________
३.५६
काव्यमाला ।
नाद्यः । उत्कर्षप्रयोजकधर्मस्यात्रानुपस्थितेः । न च श्लेषेण दीर्घाक्षरस्यो - पस्थितिरस्त्येवेति वाच्यम् । तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात् । अर्थान्तरेणाकृतिरूपेण सह श्लेषमूलका भेदाध्यवसायेन साधारणीकरणाच्च । अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । ' चन्द्रबिम्बमिव नगरं सकलकलम्' इत्यादावपि कलकलसहितत्वकलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात् । न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भरः प्रकृते तु भेदशब्दोक्त्या - वैलक्षण्ये स इति भ्रमितव्यम् । यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भरसहः स्यात् आकारशब्दश्लेषोऽनर्थकः स्यात् । कृपणस्य कृपाणस्य भेदो दीर्घाक्षरादेवेत्येव ब्रूयात् । न ह्यत्र व्यतिरेके श्लेषोऽनुकूलः । प्रत्युत प्रतिकूल एव । उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररूपवैधर्म्यस्य साधारणीकरणात् आकृति भेदस्य चोपमानोपमेययोरपि सत्त्वात् । एवं हि कवेराशयः – यत्कृपणकृपाणयोस्तुल्यतैव । दृढतरे - त्यादिविशेषणसाम्यात् । अक्षर भेदस्त्वाकार भेदत्वाद विरुद्ध एवेति सहृदयैराकलनीयम् ।
न द्वितीयः । तस्योक्तिमात्रेणाप्यसंगतेः अहृद्यत्वाच्च । तस्मादत्र गम्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्घाटनम् । प्रकृतमनुसरामः । अलंकारान्तरोत्थापितोऽप्ययं संभवति । यथा -
'ईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वरः ।
पार्वत्या सदृशी लक्ष्मीर्माता मातुः समा भुवि ॥ पितास्य काष्ठसदृशः स्वयं पावकसंनिभः ॥'
अत्र रूपकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च हेतवः ।
नस्यापि व्यतिरेकस्य नालंकारत्वम् । किं तु वस्तुतामात्रमिति । अलंकारश्चात्र गम्योपमैव कृपणकृपाणयोः श्लेष लब्धाकृतेः दीर्घाक्षराच्च भेदेऽपि इतरत्सर्वं तुल्यमेवेति पर्यवसानात् । तत्कृतचमत्कारस्यैव सत्त्वाच्चेति बोध्यम् । उपमेयानुत्कर्षेति । उपमेयोत्कर्ष प्रयोजकत्वाभावादित्यर्थः । अर्थान्तरेणेति । तस्येत्यस्यानुषङ्गः । स निर्भरः । उपमायामिति । अत्रेत्यस्यानुषङ्गः । कूटेति । मिथ्याकार्षापणेत्यर्थः । अलंकारान्तरोत्थापीति । श्लेषान्यालंकारोत्थापितोऽपीत्यर्थः । अयं व्यतिरेकः । अत्रेति ।