________________
३४८
काव्यमाला।
नित्यम्' इति वा कृते एकतरानुपादानम् । सा च । 'कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्तः' इति कृते हेतुसामान्यानुपादानम् । सा च हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपादाने तथैव । न त्वनवगतिः । व्यतिरेकस्योत्कर्षापकर्षरूपत्वात् । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात् । एवम्
'नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् ।
सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसंपदाम्बुजेन ।' अत्रोभयोपादानम् । आर्थी च । 'वदनं तु कथं समानशोभं सुदृशो भङ्गुरसंपदाम्बुजेन' [इति], 'शाश्वतसंपदम्बुजेन' इति च कृते एकतरानुपादानम् । सा च । 'सदृशं कथमाननं मृगाक्ष्या भविता हन्त निशाधिनायकेन' इति कृते उभयानुपादानम् । सा च पूर्वार्धे तु निदर्शनैव ।
'कतिपयदिवसविलासं नित्यसुखासङ्गमङ्गलसवित्री ।
खर्वयति खर्वासं गीर्वाणधुनीतटस्थितिर्नितराम् ॥' अत्रेवादेः सादृश्यमात्रशक्तस्य सदृशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभावाच्छ्रुत्यर्थमार्गोल्लचिनी खर्वीकरणेनाक्षिप्तैवोपमा । अत्रैव निःसङ्गैरभिलषिता' इत्याद्यचरणनिर्माणे 'संपातदुरन्तचिन्तयाकुलितम्' इति द्वि
नवरूपवैधर्म्ययोस्तादृशयोः । सा च श्रौती च । एवमग्रेऽपि । ननूभयानुपादाने उत्कर्षाप्रतीत्या कथमयं तद्भेदोऽत आह-हेतुद्वये हीति । तयोर्मध्ये इत्यर्थः । हि यतः । तत्रेत्थमत उभयोरुपादानेऽपि तथैवेत्यर्थः । सर्वथा अबोधो नेत्याह-न विति । उ. स्कर्षति । अपकर्षनिरूपितोत्कर्षरूपलादित्यर्थः । प्रयोजकेति । वैधघैत्यर्थः । श्रौतीमुदाहृत्यार्थीमुदाहरति-एवमिति । इह भूवलये नायिकानां नयनानि खञ्जरीटानामनेकप्रकारमङ्गसंबन्धिमोटनसंबन्धिरचनाप्रकारं वहन्तु परंतु अस्याः सुदृशो नायिकायाः समीचीनशोभं मुखमनियतशोभेन कमलेन कथं सदृशमित्यर्थः । 'भङ्गीम्' इत्युचितः पाठ इति केचित् । आर्थीति । इवादेरभावादिति भावः । शाश्वतेति । आननविशेषणमिदम् । सा च आर्थी च । एवमग्रेऽपि । आर्थीमुक्त्वा आक्षिप्तामाह-कतीति। इदं खर्वास विशेषणम् । गीर्वाणधुनी देवनदी। गङ्गातीरस्थितिविशेषणमाह-नित्येति । श्रुत्यर्थेति । श्रुत्यर्थयो? मार्गों तदुल्लविनीत्यर्थः । अत एवैवोक्तिरये (१)यथासंख्येनात्र पूर्वयोरन्वयः । निःसङ्गैयोगिभिः । संपातेति । खर्गानंशेत्यर्थः । सा च