________________
रसगङ्गाधरः ।
तीयचरणनिर्माणे वा एकतरानुपादानम् । मा च । 'सर्वानर्वाचीनान्निर्वास्य मनोरथाननन्यजुषाम्' इति पूर्वार्धे तदनुपादानमिति । 'क्रूरसत्त्वाकुलो दोषाकरभूस्तोयधिर्यथा । न तथा त्वं यतो भूप स्थिरवीरसि निर्मलः ॥ ' अत्रोपमा श्रौती । श्लेषस्तु स्फुट एव ।
३४९
'राजन्प्रचण्डमार्तण्डमण्डलोद्दण्डशासन । कथमक्रूरसत्त्वस्त्वं पयोधिरिव गीयसे ॥' इति,
'कथं वार्धिरिवासि त्वं यतः स विषभागयम्' इति वा कृते एकतरानुपादानम् ।
'महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥' अत्रार्थी । त्रिर्दश त्रिदशास्त्रिंशत् । तेषामधिपः । ' संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये' इति बहुव्रीहौ, 'बहुव्रीहौ संख्येये -' इति डचि च तत्पुरुषः । वृत्तौ गतार्थत्वात्सुचो न प्रयोगः । त्रयो वा दश वा इति बहुव्रीहिर्वा । 'भवान्सदा रक्षितगोत्रपक्षः समानकक्षः कथमस्य युक्त:' इति, 'कथं निरस्ताखिलगोत्रपक्षः समानकक्षस्तव युज्यते सः' इति वा कृते एकतरानुपादानम् ।
1
आक्षिप्ता च । अर्वाचीनान् ऐहिकान् । अनन्यजुषां स्वान्यासेवकानाम् । पूर्वार्धे कृते इति शेषः । तदनुपेति । उभयानुपादानमित्यर्थः । आक्षिप्ता चेत्यपि बोध्यम् । इत रेतद्भेदसमाप्तौ । सश्लेषमुदाहरति-क्रूरेति । सत्त्वानि जलजन्तवः । दोषाकरश्चन्द्रः । हे भूप, त्वं तथा दोषस्थानं क्रूरप्राणिव्याप्तश्च न यत इत्याद्यर्थः । ' अन्तः सत्त्वा' इति पाठः क्वचित् । तत्रान्तः अभ्यन्तरे सत्त्वैर्यादोभिराकुलः । अन्यत्र सत्त्वगुणः । तेनाकु लश्चेत्यर्थः । श्रौती । तादृशयथाशब्दसत्त्वात् । प्रचण्डसूर्यमण्डलवद प्रतिहताज्ञः । यतः सोऽयं वार्धिर्विषभागित्यर्थः । यद्वा यतोऽयं सविषं क्रूरत्वं भजति तदेत्यर्थः । एकतरेति । उपमानेतीत्यादि तु प्राग्वत् । आद्युपमाक (?) सश्लेषमुदाहरति - महेन्द्रेति । परमैश्वर्यवत्तुल्यमित्यर्थः । सहस्रैर्जनैः । त्रिदशेति । इन्द्रेणेत्यर्थः । आर्थी तुल्यशब्दप्रयोगात् । त्रिदशा देवाः । श्लेषेण द्वितीयार्थमाह - त्रिरिति । तत्पुरुष इति । तेषामधिप इत्युक्तरूप इति भावः । सुजर्थान्तर्भावेण बहुव्रीह्यङ्गीकारादाह - वृत्ताविति । तदनन्तर्भावजलाघवादाह -त्रयो वा दश वेति । प्रक्रिया पूर्ववत् । अग्रे तत्पुरुषोऽपि प्राग्वत् । आद्ये गोत्रपक्षः स्ववंशपक्षः । द्वितीये गोत्रपक्षाः पर्वतपक्षाः । ३० रस०