________________
•
३४६
काव्यमाला ।
इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुं वा इत्यस्याभावादुत्प्रेक्षाया असंभवे
बोघननिदर्शना युक्ता ।
' हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥'
यथा वा
'व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने । रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ॥' बीजाकरणं बीज प्रक्षेपपूर्वकं कर्षणम् । इदं चापरं बोध्यम्
'यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत्तन्निष्पत्राकरोज्जगत् ॥'
अत्र 'भावप्रधानमाख्यातं ' इति यास्कोक्तरीत्या क्रियाविशेष्यकबोधवादिनां शाब्द एवाभेदारोपः क्रिययोरिति मुखं चन्द्र इत्यादाविव रूपकमुचितम् । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थः स इति निदर्शनेति भेदः । निष्पत्राकरणं च सपुङ्खशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम् । इति रसगङ्गाधरे निदर्शनाप्रकरणम् ।
अथ व्यतिरेकःउपमानादुपमेयस्य गुणविशेषवच्वेनोत्कर्षो व्यतिरेकः ॥
अन्यथा वैयाकरणरीत्या तत्सत्त्वेऽपि तदप्रसक्त्या तथोक्तिसंगतिः स्यादिति भावः । क्लान्तयोरुदाहृते इत्यत्रान्वयः । प्रकाममत्यन्तम् । प्रक्षेपेति । प्रक्षेपस्य पूर्वकमित्यर्थः । तत्फलकम् । तेन सहेति यावत् । 'कृञो द्वितीय -' इति डाच् । भेदान्तरमाह - इदं श्चेति । सः क्रिययोरमेदः । पत्रराहित्येति । खार्थे ष्यञ् । बहुव्रीहिः । पत्ररहितकरणमित्यर्थः । ‘सपत्र-' इति डाच्प्रत्ययः ॥ इति रसगङ्गाधरमर्मप्रकाशे निदर्शनाप्रकरश्रम् ॥
व्यतिरेकं निरूपयति — अथेति । ननु गुणविशेषवत्त्वेनेत्युक्तावपि तत्रातिप्रसङ्ग एव ।