________________
• रसगङ्गाधरः। . ३४५ 'चूडामणिपदे धत्ते योऽम्बरे रविमागतम् ।
सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥' अत्र 'कारीषोऽग्निरध्यापयति' 'भिक्षा वासयन्ति' इतिवदानुकूल्ये णिचः प्रयोगात् गिरेश्च सूर्योदयदेशावच्छिन्नशिरस्कतारूपस्य गृहमेधिगतसदातिथ्यकरणविषयकबोधानुकूलाचरणस्य संभवात् मया इवान्येनाप्यतिथिसेवा कार्या इत्यौपम्यसद्भावाच्च संभवद्वस्तुसंबन्धमूलापि निदर्शना संभवति ।
न च बोधयन्निव बोधयन्निति प्रतीयमानेयमुत्प्रेक्षा 'व्यालिम्पति तमोऽङ्गानि नभो वर्षति कज्जलम्' इत्यादाविवेति वाच्यम् । वस्तुनः संभवेनैव तस्या अप्रसक्तेः इत्याहुः। .... .
इदं च 'धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते इत्युक्तपथेन धातूपाचव्यापाराश्रयत्वं कर्तृत्वमिति मते संगच्छते । यदि तु कृताकृतविभागानुपपत्तेर्यनार्थकात्कृञस्तृचि सविषयार्थकधातूत्तरकर्तृप्रत्ययस्याश्रयत्वे निरूढलक्षणया यत्नाश्रयः कर्तृपदार्थः, स एव च कर्तृप्रत्ययानां मुख्यार्थः, अचेतनस्तु भाक्त इति नयपथेन निरीक्ष्यते तदा बोधयन्नित्यत्र प्रतीयमानोत्प्रेक्षा संभवत्येव ।
अमुमेव चाशयं मनसिकृत्य मम्मटभटैः 'खखहेत्वन्वयस्योक्तिःइत्यादिलक्षणं निदर्शनान्तरस्य कृत्वा उदाहृतम्
'उन्नतं पदमवाप्य यो लघुलीलयैव स पतेदिति ध्रुवम् । शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥'
निदर्शनायाम् । 'अत्र' इति पाठ उचितः । पदे स्थाने । य उदयाचलः । अत्रेति । बोधयन्नित्यत्रेति शेषः । ननु गिरौ आनुकूल्याचरणं कथमत आह-गिरेश्चेति । देशेति । सूर्योदयप्रदेशावच्छिन्नशिखरतेत्यर्थः। नन्वेवमप्यौपम्याभावोऽत आह-मया इवेति । तस्याः प्रतीयमानोत्प्रेक्षायाः । वैयाकरणमतमाह-इदं चेति । नित्यमित्यस्य कर्तृतेत्यत्रान्वयः । कर्तृतैवेति तदर्थः । कृताकृतेति । नैयायिकमतमिदम् । नन्वेवं रथो गच्छतीत्यादौ दोषोऽत आह-अचेतनस्त्विति । भाक्तो गौणः।बोधयन्नित्यत्र प्र. तीयमानोत्प्रेक्षेति । सुखार्थविषया। तत्रापि मते लाक्षणिकार्थपरले लियमेवेति बोध्यम्। अमुमेवेति । नैयायिकरीत्या प्रतीयमानोत्प्रेक्षायास्तत्र तत्सत्त्वेन संभवरूपमित्यर्थः।