________________
.३४४
काव्यमाला।
- यदि तु - त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । - इन्दु चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इति पद्यं निर्मीयते तदा निदर्शना युक्ता । न चास्मदुक्ता वाच्या निदर्शना, इयं तु प्रतीयमानेति वाच्यम्। 'मुखं चन्द्र इव' इति वाच्योपमा 'मुखं चन्द्रः' इति प्रतीयमाना । न त्वलंकारान्तरम् । इत्यस्यापि सुवचत्वात् । एवं चारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शनाजीवितम् । स च कर्ताद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्शनायाम् । अत एव मम्मटभट्टैरुदाहृतम्
'क्क सूर्यप्रभवो वंशः क चाल्पविषया मतिः ।
तितीर्घईस्तरं मोहादुडुपेनास्मि सागरम् ॥' इति । नन्वत्र निदर्शना नैव संगच्छते । विषयिण उपादानेऽपि विषयस्यानुपात्तत्वात् । उभयोपादानं हि तत्रावश्यकम् । अतो ललितालंकार उचित इति चेत्, ललितालंकारनिराकरणावसर एवैतव्यक्तमुपपादयिष्यामः।
परे तु 'त्वत्पादनखरत्नानां-' इत्यत्र दृष्टान्तालंकारमाहुः । तदप्यसत् । बिम्बप्रतिबिम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्तत्वात् । तस्मात् 'त्वत्पादनखरत्नानां-' इत्यत्र वाक्यार्थरूपकमेव । न निदर्शनेति स्थितम् । एवमसंभवद्वस्तुसंबन्धनिबन्धना पदार्थवाक्यार्थनिदर्शना दर्शिता ।
वाच । किंच बदुदाहृते कों रूपकमेवास्तु । प्रतीयमानोऽपि क्रिययोरमेदो विशिष्टरूपके विशेषणामेदवन्नालंकारान्तरम् । अन्यथा अलकावृतकामिनीमुखं भ्रमद्भमरसंभारं पद्ममित्यादौ अलकभ्रमरयोरभेदस्याप्यलंकारान्तरलं स्यात् । तस्माद्गम्यतामात्रेणालंकारान्तरतेति रिकं वचः । ननु प्राचीनैरलंकारान्तरलेन परिगणनात् गम्यवेऽयम् , वाच्यले रूपकमित्युच्यते तर्हि प्राचीनसेतु विघटनं व्यर्थमेवेति बोध्यमिति । यावकैरलक्तकैः । प्रतीयमानेति । उपमेयस्यानुषः। उपसंहरति-एवं चेति । भत एव अस्यास्तदुभयवहिर्भूतनिमित्तकवेन प्रागुक्तभवदीयोदाहरणासंभवादेव । तत्र