________________
रसगङ्गाधरः।
३४३.
इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार । आह च-'यत्र तु प्रकृतवाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता' इति । तन्न । वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वापत्तेः । न चेष्टापत्तिः । वाक्यार्थनिदर्शनैव निर्वास्यताम् , खीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात् । युक्तं चैतत् । पदार्थरूपके मुखं चन्द्र इत्यादौ क्लृप्तस्य श्रौतस्याभेदारोपस्य रूपकजीवातुत्वकल्पनाया औचित्यात् । 'इन्दुशोभां वहत्यास्यं' इत्यादि पदार्थनिदर्शनायामभेदारोपस्याभावात् तज्जीवातुत्वायोगाच्च । रूपके बिम्बनं नास्तीति तु शपथमात्रम् । युक्त्यभावात् । अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायाः सावकाशत्वाच्च ।
यत्तु तेनैव लक्षणं निर्मितम्-'संभवता असंभवता वा वस्तुसंबन्धेन गम्यमानमौपम्यं निदर्शना' इति । तदपि न । रूपकातिशयोक्त्यादिष्वतिव्यापनात् । यत्त्वलंकारसर्वखकारानुसारिणा कुवलयानन्दकृतोक्तम्
'वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥' इति । तत्तु तन्मतदूषणेनैव निवेदितरहस्यमिति न पुनराकुलीक्रियते ।
नायां तथाभावे तु बीजं चिन्त्यम् । पर्यनुयोगस्य आक्षेपस्य । कल्पनाया इति । चाक्यार्थरूपकस्थले इति भावः । ननु तस्य निदर्शनाबीजखमेव कुतो न अत आहइन्दुशोभामिति । तज्जीवातुत्वेति । निदर्शनाजीवातुलेत्यर्थः । ननु निदर्शनायां बिम्बप्रतिबिम्बभावः, न रूपके इति कथं तेनास्या निरासोऽत आह-रूपके इति । अस्सदुक्तोदेति । लामन्तरात्मनीत्यत्रेत्यर्थः। रूपकस्य तत्र विषयाभावात् वाक्यार्थद्वयाभावात् । एवं च रूपकविषयभूतं वाक्यार्थनिदर्शनायां यदुदाहृतं यच्चोपपादितं तदसंगतम् । तद्विविक्कोदाहरणसंभवादिति भावः । तेनैव अलंकारसर्वखकारेणैव । अतिव्यापनादिति । प्रागुक्तरीत्येति भावः । तत्तु तन्मतदूषणेनैवेति । अत्रेदं चिन्यम्-खामन्तरात्मनि लसन्तमिति भवदुदाहृतेऽपि गम्यरूपकेणैव निर्वाहे निदर्शनाया उच्छेदापत्तिः। अन्यथा वाक्यार्थरूपकोच्छेदवद्गम्यवाक्यार्थरूपकोच्छेदापत्तिश्च । न चैवं मुखमिव चन्द्र इति वाच्योपमा, मुखं चन्द्र इति गम्योपमैव स्यादिति रूपकोच्छेद इति वाच्यम् । तत्राभेदप्रतीतिकृतचमत्कारस्यैव सत्त्वात् । सादृश्यकृतस्य तस्याभा