________________
३४२
काव्यमाला।
एव । न पदार्थनिदर्शनायाः । अस्यास्तु उपमानोपमेययोरन्यतरधर्मस्यान्यतरत्रारोपो लक्षणमस्तु । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना, पदार्थनिदर्शनायां च निगीर्याध्यवसानरूपयातिशयोक्त्या गतार्थतेति चेत् , न । वाक्यार्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तद्धनित्वायोगात् । अन्यथा गुणीभूतयोपमया रूपकस्यापि गतार्थतापत्तेः । किं च अस्याश्च शरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम् । रूपकस्य तूपमेयगत उपमानाभेदः, अतिशयोक्तेश्च । निगरणानिगरणाभ्यां च तयोर्विशेष इत्यन्यत् ।
एवं च स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम् । अत एव "त्वामन्तरात्मनि-' इति पद्ये गवेषयन्तीत्यत्र गवेषयन्त इत्यनूद्य शोधयन्त इत्यत्र शोधयन्तीति विधाने, अर्घयोः पौर्वापर्ये च न सौन्दर्यहानिः । रूपकादौ उच्यमाने व्यङ्ग्यकक्षोद्देश्यविधेयभावस्यापि वाच्यकक्षोद्देश्यविधेयभावानुसारितया उपमाने उपमेयाभेदसिद्धावसामञ्जस्यापत्तेरिति सुधीभिराकलनीयम् । अलंकारसर्वखकारस्तु
'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥'
अस्यास्तु पदार्थनिदर्शनायास्तु । उपमानोपमेयेति । 'आस्ये पूर्णशशाङ्कता' इति भवदुक्तरूपकोदाहरणे इदमतिव्याप्तमिति चिन्यम् । रूपकस्य गुणी. भूतत्वेनेति । कर्बभेदरूपवाच्यसिद्ध्यङ्गत्वेनेत्यर्थः । तवनित्वेति । रूपकध्वनित्वेत्यर्थः । द्वितीयशङ्कायां समाधत्ते-किं चेति । अस्याश्च पदार्थनिदर्शनायाश्च । तादृशेति । उपमानोपमेयेत्यर्थः । अतिशयोक्तेश्चेति । उपमेयगत उपमानाभेदः शरीरमित्यर्थः । नन्वेवं रूपकातिशयोक्त्योरैक्यापत्तिरत आहनिगरणेति । तयोविशेष इति । रूपकातिशयोक्त्योर्विशेष इत्यर्थः । उपसंहरति-एवं चेति । अस्यां निदर्शनाखावच्छिन्नायाम् । अत एव उक्तरीत्या ताभ्यां वैलक्षण्यसत्त्वादेव । अर्धयोः पूर्वोत्तरार्धयोः । रूपकादौ तूच्यमाने इत्यस्य असामजस्यापत्तेरित्यनेनान्वयः । आदिना अतिशयोक्तिपरिग्रहः । उच्यमाने इत्यस्य तथेत्यादिः । असामञ्जस्यापत्तौ हेतुर्व्यङ्गयेत्यादि तृतीयान्तम् । उपमेयाभेदसिद्धाविति । निदर्श