________________
रसगङ्गाधरः।
पदार्थनिदर्शना यथा... 'अगण्यैरिन्द्राद्यैरिह परमपुण्यैः परिचितो
जगजन्मस्थानप्रलयरचनाशिल्पनिपुणः । प्रसर्पत्पीयूषाम्बुधिलहरिलीलाविलसितो
दृगन्तस्ते मन्दं मम कलुषवृन्दं दलयतु ।' अत्र दृगन्ताम्बुधिलहरिलीलयोराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्ताद्रूप्याभिमानः । आरोपो वा दृगन्ते लहरिलीलायाः । यथा वा'पाणौ कृतः पाणिरिलासुतायाः सवेदकम्पो रघुनन्दनेन ।
हिमाम्बुमन्दानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ॥' अत्र हिमाम्बुजनितविह्वलता हिमकणाकीर्णतारूपा वातजनितविह्वलता च विधुतिरूपा । एताभ्यां च सखेदतासोत्कम्पितत्वयोः प्रतिबिम्बनमिति पूर्वस्मादुदाहरणाद्भेदः । प्रभातपदसांनिध्याच पद्मस्येषद्विकासमुद्रणयोः प्रत्ययात्पाणावपि तत्सिद्धिः । अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेदप्रतिपत्तिः । अतः पदार्थनिदर्शनोच्यते । बिम्बप्रतिबिम्बभावस्तूपमानोपमेययोः सविशेषणत्वे भवति, अन्यथा तु न इति विवेकः । ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयोरप्युपादानात् अस्तु नाम उपात्तयोरार्थोऽभेदः । पदार्थनिदर्शनायां तूपमानशोभादेरन्यतरस्यैवोपात्तत्वम् , न द्वयोरिति चेत् शोभाशब्देन शोभात्वेन द्वयोरप्युपात्तत्वात् । नापमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितं येनाव्याप्तिः स्यात् । यद्वा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया
योरिति । तज्ज्ञानयोरित्यर्थः । सः अमेदः। परिचितोऽनुभूतः । जगदिति । जगदुत्पत्तिस्थितिसंहारकारक इत्यर्थः । अत्र दृगन्ताम्बुधीति । दृगन्तसमुद्रलहोर्ये लीले तयोरित्यर्थः। दृगन्तलीलाप्रतिपादकशब्दाभावे न तथा दुर्वचमत आह-आरोपो वेति । पाणौ कृत इति । सीताविवाहवर्णनम् । श्रीरामचन्द्रेण खहस्ते कृतः खेदकम्पाभ्यां युक्तो भूसुतायाः सीताया पाणिर्हिमाम्बुमन्दवायुभ्यां विह्वलस्य कमलस्य शोभां दधावित्यर्थः। विधुतिरूपा कम्परूपा । चस्वर्थे । तत्सिद्धिः ईषद्विकासमुद्रणयोः सिद्धिः । अस्यां च पदार्थनिदर्शनात्वेनोदाहृतायां च । शोभादेरिति । आदिना लीलापरिग्रहः । उपमेयतावच्छेदकेति । तद्विशेषणतयेत्यर्थः । तथा च विवक्षायामाह-यद्वेति।