________________
३४०
काव्यमाला।
वाच्यरूपवारणाय आर्थ इति । आर्थत्वं च प्राथमिकान्वयबोधाविषयत्वम् । यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयते तदा बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम् । तद्विशेषणानां तु बिम्बप्रतिबिम्बभावो न निवार्यते । इदं च श्रौत्या निदर्शनाया लक्षणम् । आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते । उदाहरणम्
'त्वामन्तरात्मनि लसन्तमनन्तमज्ञा
स्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं
चिन्तामणिं क्षितिरजःसु गवेषयन्ति ।' अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणेभूपांसुषु गवेषणं चाभिन्नमिति तत्सादृश्यमूला धीः । यथा वा'अन्यैः समानममरैर्जगदन्तरात्म
न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः । ते किं न हन्त तुलयन्ति नभो निरन्तं
वातायनोदरगतैर्विवरान्तरालैः ॥' पूर्वत्रैकवाक्यगतः, इह तु भिन्नवाक्यगतः । पूर्वत्र वस्तुमात्रयोरौपम्यमूलोऽभेदः, इह त्वौपम्ययोरौपम्यमूलः स इति विशेषः । एषा वाक्यार्थनिदर्शनेत्युच्यते । विशिष्टार्थयोः प्रकृतकर्मिगतयोरार्थाभेदे वाक्यार्थनिदर्शनाया इष्टेः । अस्यां च घटकपदार्थानां विम्बप्रतिबिम्बभाव आवश्यकः ।
वाच्यरूपके दोषस्तदवस्थः । अत आह-आर्थत्वं चेति । प्रतीयत इति । तथा च तत्रातिव्याप्तिरिति भावः । प्रधानविशेषणमिति । तद्विशेषणानां तु प्रधानविशेषणानां तु । त्वामिति । ईश्वरं प्रति भक्तोक्तिः । एवमग्रेऽपि । कण्ठ एव तटं तन्मध्ये लभ्यं तमित्यर्थः । तव शिवस्य । विवरेति । तद्रूपैरन्तरालैरित्यर्थः । एकवाक्येति । क्रिययोरैक्यात् । भिन्नेति । तद्भेदात् । भेदान्तरमाह-पूर्वत्रेति । इह त्वौपम्य