________________
रसगङ्गाधरः ।
३३९ म्यमिति वाच्यम् । औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृष्टस्यैव पुनस्तया परामर्शस्य व्युत्पत्तेः । न चैत्रार्थमोदनः पकः, यदर्थं च पक्कः स मैत्रः इत्यादौ द्वितीयपकादिशब्दानामध्याहृतशाकादिपरत्वे असंगतेः ः स्फुटत्वात् । तस्मादस्मदुक्तेनैव पथा प्राचीनैर्विहितोऽलंकारयोरनयोविभागः संगमनीयः । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ - प्रतिवस्तूपमा, दृष्टान्तश्च । यच्चानयोः किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम्, नालंकारताया इति सुवचम् |
वैधर्म्येणायं यथा
यथा वा
'जनयन्ति परप्रीतिं नराः सत्कुलसंभवाः । नहि कारस्करः कापि तापनिर्वापणक्षमः ॥'
'तापत्रयं खलु नृणां हृदि तावदेव यावन्न ते वलति देव कृपाकटाक्षः । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पङ्केरुहोदरगतानि कुतस्तमांसि ॥' प्रीतिजननतापनिर्वापणाभावयोस्तापत्रयावस्थानतमोदूरीकरणयोश्च वैध
मात्र बिम्बप्रतिबिम्बभावः ।
इति रसगङ्गाधरे दृष्टान्तप्रकरणम् ।
अथ निदर्शनाउपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शना || अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति ।
―――――――――――――――――
कारसर्वखेत्यर्थः । तया निष्ठया । तत्र हेतुमाह-न चैत्रार्थमिति । असंग तेरिति । कव्यभिप्रायाप्रतिपादनादिति भावः । उपसंहरति — तस्मादिति । पथा मार्गेण । तेषां प्राचीनानाम् । एकस्यैवेति । उपमारूपस्यैवेत्यर्थः । प्रभेदेति । उपमाप्रभेद - ताया एवेत्यर्थः । परप्रीतिं परेषां प्रीतिम् । कारस्करः [ 'कुचला' इति प्रसिद्धो वृक्षः । ] तापत्रयमाध्यात्मिकादिदुःखत्रयम् । वलति प्रविशति । वैधम्र्येणेति । उपपादितमिद - मधस्तात् । इति रसगङ्गाधरमर्मप्रकाशे दृष्टान्तप्रकरणम् ॥
1
अथ निदर्शनां लक्षयति-— अथेति । औपम्यपर्यवसायी औपम्यमूलः । नन्वतिशयोक्त्यादौ नार्थद्वयमत आह- ध्वन्यमानेति । न वार्थत्वमर्थसंबन्धिलम् । तथा च