________________
२०
काव्यमाला।
अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना । यद्यपि यत्रार्थचमत्कृतिसामान्यशून्या शब्दचमत्कृतिस्तत्पञ्चममधमाधममपि काव्यविधासु गणयितुमुचितम् । यथैकाक्षरपद्यार्धावृत्तियमकपद्मबन्धादि । तथापि रमणीयार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वाभावेन महाकविभिः प्राचीनपरम्परामनुरुन्धानस्तत्र तत्र काव्येषु निबद्धमपि नास्माभिर्गणितम् । वस्तुस्थितेरेवानुरोध्यत्वात् । केचिदिमानपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव काव्यमाचक्षते । तत्रार्थचित्रशब्दचित्रयोरविशेषेणाधमत्वमयुक्तं वक्तुम् । तारतम्यस्य स्फुटमुपलब्धेः । को ह्येवं सहृदयः सन् 'विनिर्गतं मानदमात्ममन्दिरात्', 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादिभिः काव्यैः 'खच्छन्दोच्छलद्' इत्यादीनां पामरश्लाघ्यानामविशेषं ब्रूयात् । सत्यपि तारतम्ये यद्येकभेदत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्गययोरीषदन्तरयोविभिन्नभेदत्वे दुराग्रहः । यत्र च शब्दार्थचमत्कृत्योरैकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम् । समप्राधान्ये तु मध्यमतैव । यथा'उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां निम्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।
रिन्द्रस्तद्गोत्रजा देवास्तद्रक्षकायेत्यर्थः। लीनेति । अप्रधानत्वेनास्फुटत्वादिति भावः । न्यूनतां परिहरति-यद्यपीति । विधासु मेदेषु । महत्त्वेन तथा निबन्धे योग्यता सूचिता । परम्परामित्यनेनान्धपरम्परावदविचारः सूचितः । काव्येषु तत्र तत्र स्थलविशेषे । प्राचीनोक्तेः सूचितासांगत्यहेतुमाह-वस्त्विति । केचित् प्रकाशकारादयः। एवं तारतम्यज्ञत्वेन । 'विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥' इति प्रकाशाद्युक्तम् । ‘स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥' इत्यप्पयदीक्षितोकम् । काव्यैः । अर्थचित्ररिति शेषः । 'स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्भश्छटामूर्च्छन्मोहमहर्षिहर्षविहितस्नानाहिकाहाय वः। भिन्द्यादुद्यदुदारदर्दुरदरीदादरिद्रुमद्रोहोट्रेकमयोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥' इति प्रकाशाद्युक्तम् । पामरेति । शब्दचित्रवादिति भावः । ईषदन्तरेति । प्राधान्याप्राधान्यकृतेत्यर्थः । उल्लास इति । रविवर्णनम् । उदयाचलप्रान्तभागादयं कोऽपि