________________
रसगङ्गाधरः ।
१९
व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाप्पादेरनुभावस्य चित्तावेगादेश्व संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् ।
यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् ॥ यथा यमुनावर्णने – ' तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति । अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः । चैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पितकाश्मीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते । न तादृशोऽस्ति कोऽपि वाच्यार्थी यो मनागनामृष्टप्रतीयमान एव खतो रमणीयतामाधातुं प्रभवति । अनयोरेव द्वितीय तृतीय भेदयोर्जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोः प्रविष्टं निखिलमलंकारप्रधानं काव्यम् । यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम् ॥
यथा—
'मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे । गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ॥' इति ।
को निवारयेदिति चिन्त्यम् । अन्यथा ' ग्रामतरुणम्' इत्यादिगुणीभूतव्यङ्ग्यीय प्रकाशाद्युक्तोदाहरणानामप्यसंगत्यापत्तौ व्याकुली स्यात् । तत्रापि व्यङ्ग्य संकेतभङ्गेन वाच्यमुखमालिन्याविशयरूपानुभावमुखेनैव विप्रलम्भाभासपोषणं न केवलेन संकेतभङ्गेन । तस्याकर्तव्यवबुद्ध्यापि संभवादिति बोध्यम् । व्यङ्ग्येति । तदसमानाधिकरणत्वं चास्फुटतया बोध्यम् | हिमाचलस्य मैनाकः पुत्रः । लम्बीकृतत्वप्रविष्टत्वे भुजविशेषणे । तद्वदाचरिता । ‘उपमानादाचारे' इति क्यङ् । सखी यमुना वाच्यैव । तदर्थे क्यङः सत्त्वात् । अत्र · श्वेतपातालतलगामिनी भागीरथी तादृशविशिष्टभुजत्वेनोत्प्रेक्ष्यते । एवव्यावर्त्य व्यङ्ग्यमाह — श्वैत्येति । व्यङ्ग्यानामिति शेषः । नागेति । ग्रामीणेत्यर्थः । अत एव सम्यग्लेपनात्खाङ्गगौरत्वनिगरणम् । काश्मीरद्रवः केसररसः । सन्नपीत्यनेन व्यङ्ग्यास-मानाधिकरणत्वमित्येव कुतो नोक्तमित्यस्य निरासः । तदाह-न तादृश इति । मनागिति । ईषदस्पृष्टव्यङ्ग्य एवेत्यर्थः । उपस्कृतत्वं पोषितत्वम् । अत एव तस्याः प्राधान्यम् । मित्रेति । गोत्रात्र इति तृजन्तस्य चतुर्थ्यन्तम् । शिवाय विष्णवे वा । सूर्याचन्द्रनेत्राय । त्रयी वेदत्रयी तत्र शात्रवं शत्रुत्वं यस्य मदनस्य, येषां वा दैत्यानाम्, तच्छत्रवे । गोत्रारि
-