________________
३३६
काव्यमाला। तथा हि'उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम् । पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥' अस्मिन्नैषधीयपद्ये (१ । ३४ ) द्वयोः क्रिययोरुद्देश्यविधेयभावेन गुणप्रधानभावमकुर्वता बन्दिनः षष्ठ्यन्ततया सप्तम्यन्ततया च द्विः परामृ. शता कविना वाक्यार्थः क्रमेलकवदसंष्ठुलतां प्रापितः । यदि च स एव वाक्यार्थः प्रकारान्तरेण निर्मीयते'उपासनार्थं पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम् ।
प्रशंसतां द्वारि महीपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥' इति । तदा ललनाङ्गसंनिवेश इव कीदृशीं कमनीयतामावहेदिति सहृदयैराकलनीयम् ।
एवम्'तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥' इति कुवलयानन्दोदाहृते आलवन्दारुस्तोत्रपद्ये वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानहत्वादिच्छापूर्वकवीक्षणप्रतिषेधस्य च 'सविशेषणे हि-' इति न्यायेनेच्छाप्रतिषेधधर्मपर्यवसायितया यद्यपि धर्मैक्यं सुसंपादम् । अस्तु वा दृष्टान्तालंकारः । तथापि पादपङ्कजे निवेशितात्मेत्याधारसप्तम्याः स्थितेरविन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावयोरन्यतरेणापि प्रकारेण नानुरूपा, इत्यसंष्ठुलता स्थितैव । 'स्थितोऽरविन्दे मकरन्दनिर्भरे' इति चेक्रियते तदा तु रमणीयम् ।
नपहर्तुमित्यत्राभावादेः संष्ठुलतेति भावः । क्रमेलकवत् उष्ट्रवत् । तवेति । शिवं प्रति भकोक्तिः । इक्षुरकं 'तालमखाना' इति प्रसिद्धोषधीपुष्पम् । काशपुष्पमिति कश्चित् । गोक्षुरमित्यन्यः। आलवन्दारुस्तोत्रेति । अवर्जनीयेति । अनिष्टेऽपि खसामग्री. वशाज्जायमानस्येत्यर्थः । धातोरिच्छापूर्वकवीक्षणे लक्षणया आह-इच्छापूर्वकेति । सुसंपादमिति । तथा च प्रतिवस्तूपमोदाहरणलोक्तिस्तेषां संगतेति भावः । उक्कप्रकारेण धर्मैक्यानादरे वाह-अस्तु वेति । इति सतिसप्तमीति । इति सत्सप्तमीत्यर्थः । रमणीयमिति । तत्राप्याधारसप्तमीसंपत्तरिति भावः । घटनाया