________________
रसगङ्गाधरः।
३३५
दूरीकृत्य 'वाचा वाचस्पतेव्योंम्नि विलसन्ति न वल्लयः' इति क्रियते तदा वैधयं प्रकृतविपरीतार्थघटनाद्युक्तम् । अथ'खलास्तु कुशलाः खीयहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्तुं निरागसाम् ॥' इत्यत्रासंष्ठुलवाक्यार्थेऽतिप्रसङ्गः । कुशलनिपुणपदाभ्यामेकस्यैव धर्मस्योपादानात् । न चात्रौपम्यं न गम्यमिति वक्तुं शक्यम् । निपुणकुशलपदाभ्यां प्रतिपादितेन शब्दसामान्यात्मना धर्मेण खलफणिनोरौपम्यस्य प्रत्ययात् । नापि धर्मिणोरौपम्येऽपि विशिष्टवाक्यार्थयोस्तत्र तथेति वाच्यम् । अवयवद्वारा तयोरपि तस्य तथात्वात् । खभावसिद्धत्वेनानुपात. धर्मेणौपम्यस्य गम्यत्वाच्चेति चेत् , मैवम् । साधारणधर्मस्य वस्तुप्रतिवस्तुभावोक्त्या तदितरपदार्थानां विम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवक्षितम् । प्रकृते च खलफणिनोः प्राणहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरणप्रत्यूहकरणयोर्नाशप्रागभावपर्यवसितयोरननुरूप्यान्न बिम्बप्रतिबिम्बभाव इति न दोषः । यद्वा अस्त्वत्र प्रतिवस्तूपमा । परं त्वसंष्ठुलतारूपस्य वाक्यार्थसामान्यदोषस्य सत्त्वादचमत्कारिणी । दुष्टोपमादिवत् । वाक्यार्थो हि गाढतरव्युत्पत्तिनिपुणीकृतान्तःकरणैर्नानाविधपदार्थरचनापरिवृत्तिसमथैरेव कविभी रचितः कामपि कमनीयतामाधत्ते । नेतरः।
अप्पयदीक्षितेन । वाचेति । बृहस्पतेरुक्त्यापीत्यर्थः । स्वसिद्धान्ते आक्षिपतिअथेति । स्वीयहितेति । खीयानां यानि हितानि तत्प्रतिबन्धकर्मणीयर्थः । नापीत्यस्य वाच्यमित्यत्रान्वयः। तत्र तथेति । औपम्यं गम्यमित्यर्थः । तयोरपि विशिष्टवाक्यार्थयोरपि । तस्येति । औपम्यस्य गम्यवादित्यर्थः । स्वभावसिद्धत्वेनानुपात्तति । एतद्रूपानुपात्तधर्मेणेत्यर्थः । तादृशौपम्यस्यैकधर्मस्य संबन्धिभेदेन द्विरूपादानरूपवस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकखाभावान्न प्रतिवस्तूपमोपयोगितेति चिन्यमिदम् । विवक्षितम् अत्रेति शेषः । ननु तयोरभावलेनानुरूप्यादस्त्येव बिम्बप्रतिबिम्बभावोऽत आह-यद्वेति । घटना अननुरूपेति भावः । असंष्ठुलतारूपस्येति । पूर्ववाक्यार्थघटकहितप्रत्यूहकर्मणीति नामार्थविभक्त्यर्थादीनामुत्तरवाक्यार्थघटके प्राणा