________________
रसगङ्गाधरः ।
३३७
तस्यादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्तद्घटकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयरूपे चान्वयेन भाव्यमिति सहृदयहृदयं प्रष्टव्यम् ।
'वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ' अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं माला -
रूपा ।
इति रसगङ्गाधरे प्रतिवस्तूपमाप्रकरणम् ।
अथ दृष्टान्तालंकारः
प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च बिम्बप्र -
तिबिम्बभावे दृष्टान्तः ॥
तदुक्तम् — 'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति ।
उदाहरणम्
'सत्पूरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारेरिन्दुर्विकासयति कैरविणीकुलानि ॥'
अत्रानन्दनविकासयोरपि बिम्बप्रतिबिम्बभावः ।
अस्य चालंकारस्य प्रतिवस्तूपमया भेदकमेतदेव यत्तस्यां धर्मो न प्रतिबिम्बितः, किं तु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिबिम्बितः ।
विमर्शिनीकारस्तु–‘प्रतिवस्तूपमायामप्रकृतार्थोपादानं तेन सह प्रकृतार्थस्य सादृश्यप्रतिपत्त्यर्थम् । दृष्टान्ते तु तदुपादानमेतादृशोऽर्थोऽन्य
आनुरूप्यं सर्वथा अपेक्षितमित्युपसंहरति — तस्मादिति । मालारूपप्रतिवस्तूपमामुदाइरति - वहतीति । पटीरजन्मेति । मालारूपेति । पटीरजन्मेव दीप इत्यादिप्रती - वेरित्यर्थः । इति रसगङ्गाधर मर्मप्रकाशे प्रतिवस्तूपमाप्रकरणम् ॥
दृष्टान्तं निरूपयति—अथेति । बिम्बप्रतिबिम्बभावापन्न साधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षो बोध्यः । करैः किरणैः । कुलानि समूहान् । अपिना इन्दुपुरुषादिसंग्रहः । प्रतिबिम्बित इत्यस्य इतीति शेषः । तदुपेति । अप्रकृता
२९ रस ०