________________
₹३०
काव्यमाला ।
व्यम् । 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इत्यादौ वाक्यार्थेऽप्युपमायाः संभवात् । अत एव भिन्नशब्दोपात्तैकधर्मकत्वेनापि न वैलक्षण्यं वक्तुं शक्यम् । प्रकृते भातिभ्राजतिभ्यां धर्मस्यैकस्यैव प्रतिपत्तेः । तस्माल्लक्षणानुसारेणालंकारान्तरेभ्यो वैलक्षण्यमस्या बोध्यम् । अथ किमस्या लक्षणम् ~~' वाक्यार्थगतोपमात्वम्' इति चेत्, प्रागुक्तवाक्यार्थोपमायामतिव्याप्तेः । न चार्थत्वेन तद्विशेषणीयमिति वाच्यम् । दृष्टातालंकारे तथाप्यतिप्रसङ्गात् । वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकत्वेनापि तद्विशेषणीयमिति चेत् । तथापि
' तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन् । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥' इत्यप्रस्तुतप्रशंसायामतिप्रसङ्गादिति । मैवम् । अप्रस्तुतप्रशंसायां वस्तुप्रतिवस्तुभावस्य भिन्नशब्दोपात्तैकप्रतिपाद्यरूपस्यासंभवात् । एवं च - वस्तुप्रतिवस्तुभावापन्नसाधारणधर्म कवाक्यार्थयोरार्थमौपम्यं प्रतिवस्तूपमा ॥
' आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्भमरसंभारं स्मरामि सरसीरुहम् ॥'
इत्यत्र स्मरणालंकारेऽतिप्रसङ्गवारणाय वाक्यार्थगतमिति । अत्रौपम्यस्यार्थत्वेऽपि पदार्थगतत्वमेव । न तु वाक्यार्थगतत्वम् । स्मरणस्य तदसंपर्कात् । पदान्तरकृत्यं तूक्तमेव ।
इत्यनुषज्यते । भिन्नेति । अस्या इत्यादिः । अत एवेत्यस्यार्थमाह - प्रकृत इति । प्रागुक्ते 'दिवि भाति' इत्यादावित्यर्थः । तत् वाक्यार्थगतोपमात्वम् । एवमग्रेऽपि । तथापि यथातथाशब्दस्य तद्वाचकस्य सत्त्वात्तत्र दोषाभावेऽपि । तथा दृष्टान्ते बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मकत्वेन दोषाभावेऽपि । यापय अतिक्रमय । एवं च अप्रस्तुतप्रशंसायास्तेनैव वारणे च । वस्तुप्रतिवस्तुभावापन्नेति । तद्विशेषणानां तापचापादीनां बिम्बप्रतिबिम्बभावे 'तापेन भ्राजते' इत्यादौ क्वचित्सत्यपि साक्षादुपमानोपमेयवृत्तिधर्मौ वस्तुप्रतिवस्तुभावापन्न एव । दृष्टान्ते तु साक्षात्तद्वृत्तिधर्मस्यापि बिम्ब'प्रतिबिम्बभाव इति दृष्टान्ताद्विशेषः । अत एव वस्त्वित्यादिना दृष्टान्तवारणम् । एकस्यैव धर्मस्य पृथक्छब्दाभ्यामुपादानं वस्तुप्रतिवस्तुभावः । ' दिवि भाति यथा भानुस्तथा त्वं भासि वै भुवि' इत्यादौ वाक्यार्थोपमायामतिव्याप्तिवारणार्थमिति । तद्ध्वनयन्वक्ष्यति — पदान्तरेति । स्मरणस्य तदसंपर्कादिति । यथा वाक्यार्थोप