________________
३२८
काव्यमाला ।
इदमेव लतादिष्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम्, अन्यथा तुल्ययोगितायाः । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्रियारूपमनुगामिमात्रे चमत्कारकारणम्, अपि तु कुसुमादिबिम्बप्रतिबिम्बकरम्बितम् । इयांस्तु विशेषः — यत्केवल बिम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः । यथा 'कोमलातपबाला -' इत्यादौ । प्रकृते तु न तथा । अनुगामिनं विना धर्मखरूपस्यैवानिष्पत्तेः । नहि बिम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्वृत्तिः संभवति । तथा 'मृतस्य लिप्सा - ' इत्यादि प्रागुक्ते मृतादीनाम् । कारक दीपके कारकतुल्ययोगितायां च 'वसु दातुं - ' इत्यादौ क्रियाणां धर्मित्वात्तद्विशेषणानां वखादीनां च बिम्बप्रतिबिम्बता बोध्या ।
उत्तरोत्तरस्मिन्पूर्वपूर्वस्योपकारकतायां माला दीपकम् । यथा— 'आखादेन रसो रसेन कविता काव्येन वाणी तया लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना ।
दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर
क्षोणीनाथतया भवांश्च भवता भूमण्डलं भासते ||'
1
एतच्च प्राचामनुरोधादस्माभिरिहोदाहृतम् । वस्तुतस्त्वेतद्दीपकमेव न शक्यं वक्तुम् । सादृश्यसंपर्काभावात् । किं त्वेकावलीप्रभेद इति वक्ष्यते । अस्मिंश्चालंकारद्वये क्रियादेर्धर्मस्यैकरूप्येण धर्मिष्वनन्वयो दोषः । यथा प्रागुक्ते पद्ये रसिकाः सामाजिकास्तैः सभा इति कृते एकवचनान्तैर्धर्मिभिरैकरूप्येणान्वयेऽपि सामाजिकैरनन्वयात् । वचनविपरिणामेनान्वये उपमायामिव स्यादेव दोषः । एवं जहल्लिङ्गनामार्थस्य धर्मस्य सकृद्वृत्तौ लिङ्गभेदोsपि दोषः । यथा—
'जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता | कवितायां परिणामो दुष्प्रापः पुण्यहीनेन ॥'
1
मेव उदाहरणद्वयमेव । बिम्बेति । विलक्षणशोभाश्रयणानामित्यादिः । तुल्ययोगितायां चेति । अस्याग्रेऽन्वयः । वस्वादीनां चेति । चेन मृतादीनां समुच्चयः । उपमायामिव स्यादेवेति । तेन धर्मेणोपमा गम्या न स्यादिति भावः । लिङ्गमेदोऽपीति । धर्मिणामिति शेषः । एवमग्रेऽपि । जगतीति । अत्र दुष्प्राप इति