________________
रसगङ्गाधरः ।
३२७ चौपम्यानापत्तेश्च । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितम् । प्रकृ. तानामेव धर्मस्य सकृद्वृत्तिः, अप्रकृतानामेव, प्रकृताप्रकृतानां चेति । एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य पृथगलंकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्याः। :: अमुं चालंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रिवि. धमामनन्ति । यथा.. 'न भाति रमणीयोऽपि वैराग्येण विना यतिः ।
वैदुष्येण विना विप्रो नरलोकस्त्वया विना ॥' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः। . . भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम् ॥ 'आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम् ।
नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥' एवं तुल्ययोगितायामप्यूह्यम् । ।
वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावात्रैविध्योक्तिरापातमात्रात् । अन्यथा धर्मस्योपाद्युपमध्योपान्त्यगतत्वे ततोऽपि किंचिन्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात् । ।' एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम् । बिम्बप्रतिबिम्बभावेनाप्येतत्संभवति । यथा
'शीलभारवती कान्ता पुष्पभारवती लता । अर्थभारवती वाणी भजते कामपि श्रियम् ॥' 'लता कुसुमभारेण शीलभारेण सुन्दरी। कविता चार्थभारेण श्रयते कामपि श्रियम् ॥'
नापत्तेश्चेति । वैपरीत्यादिति भावः । गतत्वेन निष्ठत्वेन । रमणीयोऽपि श्रुताचारसंपन्नोऽपि । यतिः संन्यासी । राजवर्णनमिदम् । एवमग्रेऽपि । मदेति । मदोत्कर्षेणे. त्यर्थः । वारणेति । गजेन्द्र इत्यर्थः । भवकानित्यकच्प्रत्ययः । भवानित्यर्थः । भगवान्' इत्यपपाठः । कुण्डलीति । सर्पसमूहकुण्डलेनेत्यर्थः । नरेत्यादि संबोधनद्वयम् । आमनन्तीति सूचितामरुचिमाह-वस्तुतस्त्विति । अन्यार्थवैलक्षण्याभावेऽपि भेदा. गीकारे । उपादीत्यादि । आदिसमीपेसाद्यर्थः । उपसंहरति-एवमिति । इद