________________
३२६
. .
काव्यमाला।
यश्च सुधां पातुं योऽपि कीर्ति साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्वद्भक्तिं कर्तुं मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भिन्नकर्तृत्वेऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम् । किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्भक्तीनां बिम्बप्रतिबिम्बाभावकृतम् । नापि चात्रैककर्तृत्वे काचिदर्थस्यास्ति परिपुष्टिः । प्रत्युत प्रातिकूल्यम् । सर्वेषां पशुत्वोक्त्यपेक्षया सकलतादृशक्रियाकरणमन्दादरस्यैकस्य पशुत्वोक्ते रमणीयत्वात् । यदि तु विमर्शिनीकारोक्तिरवश्यं समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-क्रियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य मन्दादरत्वस्यैक्यात्तस्यैव च परम्परासंबन्धेनानेकक्रियासाधारणधर्मस्य सकृवृत्तिरस्तीति न दोषः । कारकस्येव कारकविभाजकोपाध्यवच्छेदकस्यापि सकृद्धत्तेः कारकदीपकत्वेन परिभाषितुं शक्यत्वात् । कारकसकृद्धृत्तेस्त्वस्माभिरुक्तमेवोदाहरणमनुसतव्यम् ।
अत्रेदं बोध्यम्-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति । धर्मसकृदृत्तिमूलाया विच्छित्तेरविशेषात् । विच्छित्तिवैलक्षण्यस्यैवालंकारविभागहेतुत्वात् । न च धर्मस्य सकृद्वत्तेरविशेषेऽपि धर्मिणां प्रकृतत्वाप्रकृतत्वाभ्यां प्रकृताप्रकृतत्वेन च तुल्ययोगितायां दीपकस्य विशेष इति वाच्यम् । तवापि तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः । श्लेषेऽपि द्वैतापत्तेश्च । सर्वेषामप्यलंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्यापत्तेश्च । न च दीपके वास्तवमौपम्यं गम्यम् । उपमानोपमेययोः प्रकृताप्रकृतरूपयोस्तत्र सत्त्वात् । तुल्ययोगितायां च वैवक्षिकम् । उपमानोपमेयस्वरूपाभावात् । अतो वैलक्षण्यमिति वाच्यम् । उपमेयोपमानत्वयोः प्रकृताप्रकृतरूपत्वे मानाभावात् । 'खमिव जलं जलमिव खम्' इत्याद्युपमेयोपमायां प्रतीपे
भावः । नन्वेवमपि कारकस्य सकृदृत्तेरभानात्कथं तत्त्वमत आह-कारकस्येवेति । कारकशब्द उभयपर इति भावः । तर्हि कारकदीपकस्य किमुदाहरणमत आह-कारकेति । क्रमेणाह-प्रकृतत्वेति । न केवलमत्रैव दोषोऽपि त्वन्यत्रापीत्याह-श्लेपीति । भङ्गाभङ्गभेदादिति भावः । न केवलभेतावदित्याह-सर्वेषामिति ।