________________
३२०
काव्यमाला। इत्यत्रापि कटुत्वविशिष्टस्य निम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वसंभवात् । न चात्र वृत्तिनियामकसंबन्धेन धर्मिवृत्तित्वं विवक्षितं ध. र्मस्य । वक्ष्यमाणकारकदीपकादावव्याप्त्यापत्तेः । अथ चन्द्र इव सुन्दरं मुखमित्याधुपमायां चन्द्रमुखयोरेकधर्मान्वयादतिव्याप्तिः । न चात्र प्रकृतानामेवाप्रकृतानामेवेत्युक्तत्वान्न तथेति वाच्यम् । प्रागुक्ते 'प्रिये विषादं-' इति पद्ये 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधारा ।' इत्युत्तरार्धे कृते प्रकृतयोर्मानवारिधारयोरुपमायां तथाप्यतिव्याप्तेः । चन्द्र इव सुन्दरं मुखमित्यत्रापि वक्ष्यमाणदीपकलक्षणातिव्याप्तेश्च । न चौपम्यस्य गम्यत्वे सतीत्यपि विशेषणीयमिति वाच्यम् ।
'चन्द्रांशुनिर्मलं वारि चन्द्रो हंससमद्युतिः ।
हंसास्तु शरदि मेरपुण्डरीकमनोरमाः ॥' इत्यत्र वाचकाभावाद्गम्योपमायां तथाप्यतिप्रसङ्गात् । यदि चात्र न व्यङ्गया उपमा, किं तु समासस्य वाच्या पूर्वपदस्य लक्ष्या चेति सूक्ष्ममीक्ष्यते तथापि 'हंसास्तु मानसभुवश्चन्द्रा एव न संशयः' इत्यादिरूपकादिप्वतिप्रसङ्गः । न ह्यत्रापि चन्द्रादिसादृश्यविशिष्टे चन्द्रादिपदानां लाक्षणिकत्वादुपमा लक्ष्यैवेति शक्यते वक्तुम् । रूपके लक्षणा नास्तीति प्रागेव प्रतिपादनात् इति चेत्, न । यत्र यथोक्तानां धर्मिणां यथोक्तधर्मान्वय एव चमत्कारी तत्र तुल्ययोगिता, दीपकं वा । यत्र तादृशधर्मान्वयप्र
नस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरलादिति बोध्यम् । परम्परया छेदकेति । स्वकर्मकक्रियाश्रयत्वरूपयेत्यर्थः । वक्ष्यमाणकारकेति । 'वसु दातुं यशोधातुमतीव निपुणो भवान्' इत्यादावित्यर्थः । वक्ष्यमाणदीपकेति । प्रकृताप्रकृ. तत्वसत्त्वादिति भावः। इबस्य सत्त्वानोक्तदोषद्वयमित्याशयेनाह-न चेति । चन्द्रांशुनिर्मलमिति । अत्र द्वितीयचरणे नातिप्रसङ्गविषयः । समशब्दस्य सत्त्वात् तदंशे प्रक्रमभङ्गश्च काव्यदोषो बोध्यः । अतिप्रसङ्गादिति । तुल्ययोगिताया इत्यादिः । शरदृतुवर्णने सर्वेषां प्रकृतत्वात् । एवमग्रेऽपि बोध्यम् । वैयाकरणमतेनाह-समास. स्येति । नैयायिकमतेनाह-पूर्वेति । यथोक्तानामिति । प्रकृतानामेवाप्रकृतानामेव वा प्रकृताप्रकृतानां वेत्यर्थः । यथोक्तेति । गुणादीत्यर्थः । इत्यसकृदिति ।