________________
रसगङ्गाधरः ।
'शासति त्वयि हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रु मित्रयोः ॥' इत्यत्राभावरूपस्यैव धर्मस्यान्वयात् । गुणक्रियेत्युपलक्षणं वा धर्ममात्रस्य । एवम् ' एकस्त्वं दानशीलोऽसि प्रत्यर्थिषु तथार्थिषु' इत्यादावपि दानशीलरूपैकान्वयालक्षणमवृत्तिः । यथाकथंचिदनेकत्रैकान्वयस्य चमत्कारिणोऽपेक्षितत्वात् । एतेन —
'हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते पराभूतिर्मित्र शात्रवयोः समा ॥'
३१९
इत्यादिना तुल्ययोगितायाः प्रकारान्तरं यत्कुवलयानन्दकृता लक्षित - मुदाहृतं च तत्परास्तम् । अस्या अपि 'वनामितरेषां वा धर्मैक्यं तुल्ययोगिता ।' इति पूर्वलक्षणाक्रान्तत्वात् । एकानुपूर्वबोधितवस्तुकर्मकदानपात्रत्वस्य परम्परया तादृशशब्दस्य प्रागुक्तमार्गेणार्थस्य वा धर्मस्यैक्यात् । 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः ॥ '
धर्ममात्रं गुण इति वैयाकरणमतेनेदम् । किं च ' न मनागपि निश्चिन्ते' इत्यत्र चिन्ताभाववद्भेदस्य चिन्तानतिरिक्ततया गुणस्यैव साधारणधर्मत्वमित्यपि वक्तुं शक्यम् । दा नेति । द्रव्यस्य पराभवस्य वेति भावः । एतेनैत्यस्यार्थमाह - अस्या अपीति । पूर्वलक्षणाक्रान्तत्वादिति । अत्रेदं चिन्त्यम् - हिताहित विषय कतुल्यव्यवहार कर्तृत्वप्रतीतिकृतचमत्कारे एषा । यथोक्तधर्मिणामेकधर्मान्वयकृत एव यत्र चमत्कारस्तत्राद्येति भेदात् । ‘प्रदीयते पराभूति : ' 'यश्च निम्बं - ' इत्यनयोः पद्ययोर्न तादृशधर्मान्वयतयात्र कृतश्चमत्कारः । किंतु राजनिम्बयोर्हिताहितविषय कशुभाशुभान्यत रे कजातीय कर्तृकव्यवहारकृत एवेति सहृदयहृदयमेवात्र प्रमाणम् । अत एव 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधारा' इत्यत्र न तुल्ययोगिता । चन्द्र इव सुन्दरं मुखं इत्यत्र न दीपकम् । तत्र सादृश्यप्रतीतिकृतचमत्कारकस्यैव सत्त्वात् । नन्वेवमलंकारान्तरलमेव वक्तुं युक्तम् । इति चेत् सत्यम् । अत एवास्वरसात्कुवलयानन्दकृता 'इयं सरस्वती - कण्ठाभरणोक्ता' इत्युक्तम् । न च तुल्ययोगितायां सादृश्यस्य गम्यतया गम्योपमयैव निर्वाहः । तावन्मात्रकृतचमत्काराभावात् । एकधर्मान्वयकृतस्यापि सत्त्वात् । प्रतीयमा