________________
३१८
काव्यमाला ।
'न्यञ्चति वयसि प्रथमे समुदञ्चति किं च तरुणिमनि सुदृशः । उल्लसति कापि शोभा वचसां च दृशां च विभ्रमाणां च ॥
अत्र गुणः । यदि च ' विलसन्त्यहमहमिकया वाचो गतयश्च विभ्रमाश्च भृशम्' इत्युत्तरार्धं तदा क्रिया । यदि 'दधति स्म मधुरिमाणं चाचो गतयश्च विभ्रमाश्च भृशम्' इति क्रियते तदा गुणविशिष्टा क्रिया । केवलगुणेन साक्षात्संबन्धाभावात् केवलक्रियायाश्चाहृद्यत्वात् ।
अप्रकृतानामेव यथा
―――――――――
'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीनि पाण्डिमनि । मालिन्यमाविरासीद्राकाधिपलवलिकनकानाम् ॥'
अत्र गुणः । आविर्भावक्रियायाः साक्षाद्धर्मिभिरनन्वयात् । ' न्यञ्चति राकाधिपतिर्लबली पुरटं च पुण्डरीकं च' इति कृते क्रिया । 'धवलीभवत्यनुदिनं लवली कनकं कलानिधिश्चायम्' इति कृते गुणविशिष्टक्रिया |
' त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् । विपिने वैविधूनां वर्षन्ति विलोचनानि च दिनानि ॥' अत्रोभयसाधारणयोर्गुणक्रिययोरभावाच्छब्दमात्रम् । श्लेषमूलेनाभेदाध्यवसानेन पिण्डीकृतोऽर्थो वा ।
यत्त्वलंकार सर्वखकृता, तदनुगामिना कुवलयानन्दकृता च 'गुणक्रियाभिः संबद्धत्वे गुणक्रियारूपैकधर्मान्वयः' इति चोक्तं तदापाततः ।
विद्यमानस्यापि सादृश्यस्यासुन्दर साधारणधर्मकत्वेनासुन्दरत्वादिति बोध्यम् । सामान्यस्य क्रियान्वयित्वरूपकारकत्वस्य । प्राचां मतेनेदं कियोदाहरणमुक्त्वा गुणोदाहरणमाह–न्यञ्चतीति । तिरोभूते सतीत्यर्थः । गुण इति । शोभारूप इत्यर्थः । आदिपदग्रायोदाहरणमाह- यदीति । ननु केवलस्यैव तत्त्वं कुतो नात आह- केवलेति । कारकाणां मिथः क्रियाद्वारसंबन्धादाह - साक्षादिति । लवलिः 'हरफारेवडी' । गुणो मालिन्यरूपः । धर्मिभिश्चन्द्रादिभिः । तेषामकारकत्वात् । पुरटं सुवर्णम् । आदिसंग्राह्यान्तरोदाहरणमाह - त्वयीति । पाकेति । इन्द्रतुल्य इत्यर्थः । वर्षन्ति वर्षणं कुर्वन्ति । संवत्सरवदाचरन्तीत्यर्थः । उभयेनेति । नेत्रादिनेत्यर्थः । शब्दमात्रभिति । वर्षन्तीति शब्दमात्रमित्यर्थः । तस्य तदुभयवृत्तित्वाभावादाह - श्लेषेति । पिण्डीकृत एकीकृतः । यथाक्रममाह – गुणेति । यद्वा जातिक्रियाद्रव्यातिरिक्तं