________________
रसगङ्गाधरः।
३१७ अथ तुल्ययोगिता-. प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिता ॥
औपम्यं चात्र गम्यम् । तत्प्रयोजकस्य समानधर्मस्योपादानात् । वाचकाभावाच्च । अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरम् । न तु साधारणधर्मरूपमिति विज्ञायते । अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्तेः । केचित्तु— 'सादृश्यभाव एवातिरिक्तः । सादृश्यं तु ततत्साधारणधर्मास्मकमेव । स चेवादिपदानां शक्यतावच्छेदकः । तत्तत्साधारणधर्मवाचकैस्तु तत्तत्साधारणधर्मस्य खशक्यतावच्छेदकतत्तद्धर्मरूपेण बोधनेऽपि सादृश्यभावरूपेण बोधो व्यञ्जनसाध्य एवं' इत्यपि वदन्ति । उदाहरणम्'प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः।
वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥' अत्र मानिन्या वर्ण्यत्वात्तदीयत्वेन प्रकृतयोः कोरथुमानयोर्विगलनक्रिया समानधर्मत्वेनोपात्ता । विलोचनमनसोरपादानयोश्च । कारकाणां सर्वेषामपि क्रियान्वयस्य तुल्यत्वात् । एवं चतुर्णा क्रियारूपधर्मेक्येऽपि द्वयोर्द्वयोरेवौपम्यं प्रतीयते न परस्परं चतुर्णाम् । तदपादानस्य तत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात् । शेषमुपरिष्टाबोध्यम् ।
तुल्ययोगितां निरूपयति-अथेति । विनिगमनाविरहादाह-अप्रकृतेति । ननु नायं नियमोऽत आह-वाचकेति । अत एव औपम्यस्यात्र गम्यवादेव । अपिना वैयाकरणादिसमुच्चयः । निरूपितं चैतत्कुवलयानन्दव्याख्यायां मञ्जूषायां च । सादृश्यभावः सादृश्यत्वम् । स च सादृश्यभावश्च । केचिदिति । अरुचिबीजं तु 'अन्वे रण्डा-' इति न्यायविरोधापत्तिरिति । वदतीति सप्तम्यन्तम् । प्रियाया नेत्राभ्यां हृदश्च जलानां बह्वी धारा मानश्च च्युत इत्यर्थः । विलोचनेति । उक्तरीत्या प्रकृतयोरि.. त्यादिः । दानयोश्चेति । विगलनेत्याद्यनुषज्यते । ननु कोंः क्रियान्वयात्तथा संभवेऽपि कथमपादानयोस्तथा । तत्रान्वयस्यैवाभावात् । अत आह-कारकेति । द्वयोर्द्वयोरेवौपम्यं प्रतीयत इति । तत्प्रतीतावपि नात्र तत्कृतश्चमत्कारोऽनुभवसिद्धः । किं तु तत्सहकृतकधर्मान्वयकृत एवेति पृथगलंकारता । न च गम्योपमयैव निर्वाहः ।
१. 'अन्ते रण्डाविवाहश्चेदादावेव कुतो नहि' इति.