________________
रसगङ्गाधरः।
३२१ युक्तं सादृश्यमभेदो वा तत्रोपमारूपकादिकमेवालंकारताप्रयोजकम् । सुन्दरत्वे सत्युपस्कारकत्वमित्यसकृदावेदनात् । अन्यथा सादृश्यस्यात्र प्रत्ययात्तदादायोपमाव्यवहारस्यापत्तेरिति दिक् । एवं च
'दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्य च दृष्टे भवति भासते ॥' . इत्यादौ रशनारूपैषा ययासंख्यावष्टब्धा ।
'दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः ।
अथ त्वं संगरे सौम्याः शेषकालानलाब्धयः ॥' इत्यत्र च खरूपद्वयेन राजविषयकरतिभावभूषणतया स्थिता ।
यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वयः सा कारकतुल्ययोगिता। यथा
'वसु दातुं यशो धातुं विधातुमरिमर्दनम् ।
त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ॥' अत्र राज्ञः स्तावकवाक्ये प्रकृतानां क्रियाणामेकेन का साधारणेन धर्मेणौपम्यम् । यथा वा
'दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥'
इत्यस्यासकृदित्यर्थः । अन्यथा उक्तव्यवस्थानङ्गीकारे । अत्र तुल्ययोगितायाम् । प्रत्ययाद्गम्यमानखात् । अपिना सांकर्य सूचितम् । एवं च अस्या अतिरिक्तले च । रशनारूपैषेति । दधीचिरिव बलिर्बलिरिव कर्ण इत्यादिप्रतीतेरिति भावः । यथासं. ख्येति । बल्यादिष्वदातृवं हिमालयादिष्वधैर्यमिति भावः । राजवर्णनमिदम् । दृष्ट इति । इदमपि राजवर्णनम् । हे राजन्, खं सभायां दृष्टश्चेचन्द्रादय उग्रा दृश्यन्ते । अथ वं रणे दृष्टश्चेच्छेषादयः सौम्या दृश्यन्त इत्यर्थः । स्वरूपद्वयेनेति । शान्तोग्ररू. पेणेत्यर्थः । रतीति । कविनिष्ठेत्यादि । धातुं संपादयितुम् । विधातुं कर्तुम् । चुलुकी