________________
२९४
काव्यमाला। एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा
'नितान्तरमणीयानि वस्तूनि करुणोज्झितः ।
कालः संहरते नित्यमभावादिव चक्षुषः ॥' अत्र कालस्य साहजिके संहारकत्वे चक्षुरभावस्य हेतुत्वेनोत्प्रेक्षा ।
'निःसीमशोभासौभाग्यं नताझ्या नयनद्वयम् । .. अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ॥' अत्र गुणाभावस्य । 'जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम् । वदनेन्दुरुचामिहाप्रचारादिव तन्वनि नितान्तकान्ति कान्तम् ॥'
इह द्वितीयाधं क्रियाभावस्य । प्रथमाधे तु जात्यवच्छिन्नस्य जात्यवच्छिन्नाभावस्य वा खरूपोत्प्रेक्षैव ।।
'न नगाः काननगा यद्रुदतीषु त्वदरिभूपसुदतीषु । — शकलीभवन्ति शतधा शङ्के श्रवणेन्द्रियाभावात् ।।'
इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्रियमाणे आकाशखरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा । निमितं , क्रियाभावः । एवं हेतूत्प्रेक्षादिक् । ..
त्वेनेति । द्युतिरित्यनेनेति भावः । एषामेव जात्यादीनामेव । करुणोज्झित इति । त्यक्तकरुणः । आहिताम्यादित्वानिष्ठान्तस्य परनिपातः । इदं जात्यवच्छिन्नाभावहेतुत्वोत्प्रेक्षोदाहरणम् । गुणाभावहेतुत्वोत्प्रेक्षोदाहरणमाह-निःसीमेति । गु. णेति । आनन्दरूपेत्यर्थः । हेतुत्वेनोत्प्रेक्षेति शेषः । एवमग्रेऽपि । क्रियाभावहेतुलोत्प्रेक्षोदाहरणमाह-जनेति । हे कृशाङ्गि आलि, इह चिकुरे तव मुखचन्द्रकान्तीनामसंबन्धादिव इदं दृश्यं केशसमूहरूपं चिकुरवदाकारो यस्य तादृशं जनमोहकरं निबिडान्धकारमहं मन्य इत्यर्थः । यदाशयेनोदाहृतं तमाह-इहेति । प्रचारस्य क्रियावादिति भावः । तुरुक्तवैलक्षण्ये । एतेन प्रासङ्गिकलमस्य सूचितम् । अतएव व्युत्क्रमेणोक्तिः । अन्धकारोऽतिरिक्तः पदार्थ इति मतेनाह-जात्यवच्छिन्नेति । तेजोभाव एव स इति मतेनाह-जात्यवच्छिन्नाभावेति । क्वचिद्वैपरीत्येन पाठः । द्रव्याभावहेतुलोस्प्रेक्षोदाहरणमाह-न नगा इति । शष्कुल्यवच्छिन्ननभसः श्रोत्रखादाह-विवेक इति । भावस्येत्यस्य व्याख्या द्रव्याभावस्येति । तस्य तत्त्वेनोत्प्रेक्षणे निमित्तमिति । क्रियेति । शकलीभवनरूपेत्यर्थः । उपसंहरवि-एवमिति । उक्तप्रकारेणेत्यर्थः ।