________________
रसगङ्गाधरः ।
२९३
गुणहेतूत्प्रेक्षा यथा
‘परस्परासङ्गसुखान्नतभ्रुवः पयोधरौ पीनतरौ बभूवतुः । तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति ॥' अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्वं तावत्पञ्चम्यैव निर्दिष्टम् । अपरार्धे धर्मिविशेषणतया अनूद्यमानस्य गुणाभावस्य त्वार्थम् । यथा 'भोक्ता भुञ्जानो वा तृप्यति' इत्यादौ भोजनादेः ।
यथा वा
'व्यागुञ्जन्मधुकरपुञ्जमञ्जु गीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात् । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥' क्रियाहेतूत्प्रेक्षा यथा---- 'महागुरुकलिन्दमहीधरोदर विदारणा विर्भवन्महापातकावलिवेल्लनादिव श्यामलिता' इति । द्रव्यहेतूत्प्रेक्षा यथा
' वराका यं राकारमण इति वल्गन्ति सहसा सरः खच्छं मन्ये मिलदमृतमेतन्मखभुजाम् । अमुष्मन्या कापि द्युतिरतिघना भाति मिषतामियं नीलच्छायादुपरि निरपायाद्गगनतः ॥ ' अत्रामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलङ्के उपरिवर्तिनभो हेतुकत्वमुत्प्रेक्ष्यते । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवादो निरस्तः ।
प्रतिदिनोपचीयमानत्वं निमित्तम् । अञ्चति गच्छति । अपरार्ध इति । उत्त रार्ध इत्यर्थः । कचित्तथैव पाठः । आर्थत्वे हेतुगर्भ विशेषणमाह-धर्मीति । मध्येत्यर्थः । गुणाभावस्य मर्षणाभावस्य । भोक्तेत्यत्र कालसामान्यप्रतीतेर्विशेषोदाहरणमाह - भुञ्जानो वेति । नैयायिकोक्त गुणस्यैव ग्रहणमिति भ्रमनिरास्रायोदाहरणान्तरमाह — यथा वेति । उदयदिति । उदयन्ती आविर्भवन्ती या लज्जा तस्याः संबन्धात्, आधिक्याद्वेत्यर्थः । भूमिमभिव्याप्य नम्राः कंधराः शाखा येषां तानि । वृक्षाणां समूहरूपाणीत्यग्रिमार्थः । अत्रापि लज्जारूपगुणस्य हेतुत्वं स्पष्टमेव । वेळनात्तत्संबन्धात् । अत्र वेल्लनं क्रियेति स्पष्टमेव । श्यामलिता संजातश्यामा । वराकाः कृपणाः । यं चन्द्रम् । मिलदमृतमिति । 'लसदमृतम्' इति पाठान्तरम् । मखभुजां देवानाम् । अमुष्मिन्सरसि । इयं द्युतिर्नैल्यरूपा । मिषतां पश्यताम् । उपरि । वर्तमानादिति शेषः । निरपायादनश्वरात् । नील