________________
२८०
काव्यमाला ।
अङ्गारप्रखरैः करैः कवलयन्सद्यो जगन्मण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥'
अत्र विरहिजनवाक्ये नायं शशाङ्कः, अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपह्नुतेः । न त्वपह्नुत्यलंकारः । तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात् । किं तु भ्रान्त्यलंकार एव ।
'अलिर्मृगो वा नेत्रं वा यन्न किंचिद्विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥'
इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधि - करण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न संग्रहः । न चात्र विषयनिषेधस्यापदार्थत्वं शक्यम् । वाशब्दार्थत्वात् । यत्तु कुवलयानन्दाख्ये संदर्भे अप्पयदीक्षितैरपहुतिप्रमेदकथनप्रस्तावे पर्यस्तापह्नुत्याख्यं भेदं निरूपयद्भिरभिहितम् ।
'अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः ।
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥' इति ।
अत्र चिन्त्यते - नायमपह्नुतेर्भेदो वक्तुं युक्तः । अपह्नुतिसामान्यलक्षणानाक्रान्तत्वात् । तथा हि- 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः, उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापह्नुतिः " इति काव्यप्रकाशोत्तलक्षणबहिर्भावस्तावत्स्फुट एव । एवं ' विषयापह्नवे वस्त्वन्तरप्रतीतावपहुतिः' इत्यलंकारसर्वखोक्तं लक्षणमपि नात्र प्रवर्तते । 'प्रकृतस्य निषेधेन यदन्यत्व प्रकल्पनम् । साम्यादपह्नुतिर्वाक्य भेदाभेदवती द्विधा ॥'
1
नैल्यगुणो यस्येत्यर्थः । अङ्गारतीक्ष्णकिरणैरित्यर्थः । छायामात्रं सादृश्यमात्रम् । निश्चयलनिवेशफलमाह — अलिरिति । व्याख्यातमिदम् । अपदार्थत्वं कथमपि पादप्रतिपाद्यत्वम् । वाशब्देति । विकल्पद्वारा वाशब्दव्यङ्ग्यत्वादित्यर्थः । एवं चार्थिको निषेध इति भावः । स कारिकाकारः स्वीयव्याख्यानमाह – उपमेयमसत्यमिति । अत्र ह्युपमे - यपदे पदार्थोपलक्षणमावश्यकमित्येतद्विरोधश्चिन्त्य इत्यग्रे स्फुटं निरूपयिष्यते । प्रतीताविति । तत्रैव प्रत्यासत्तेरिति भावः । एवं पूर्वत्रापि बोध्यम् । साम्यात्सादृश्यमूलकम् ।