________________
रसगङ्गाधरः।
२७९ र्वकत्वं क्वचिद्विषयिताद्रूप्यविषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं कचिदुभयोः शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति । एवमनेके प्रकाराः संभवन्ति । परं तु न ते वैचित्र्यविशेषमावहन्तीत्यगणनीयाः । एवमपि दिङ्मात्रमुपदर्यते-तत्र प्रागुक्तायां सावयवापहृतौ प्रथमावयवेऽपहवपूर्वकत्वमुभयोः शाब्दत्वं विधेयत्वं वाक्यभेदश्च । द्वितीयावयवे तु वक्तृगतमूढतोक्त्या तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः । तादूप्यं शाब्दम् । विधेयत्ववाक्यभेदापह्नवपूर्वकत्वानि पूर्ववत् । चतुर्थावयवे पुनरारोपपूर्वकोऽपह्नवः । उभयोः शाब्दत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव ।
'वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा। . अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्राः ॥'
अत्रैकवाक्यत्वं निषेधताद्रूप्ययोरार्थत्वं विधेयत्वं च । निवेशनस्य विधेयत्वात् । एवमन्यदप्यूह्यम् । अत्र च लक्षणे आरोप्यमाणमित्यस्याहार्यनिश्चयविषयीक्रियमाणमित्यर्थः । तेन
'सङ्ग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर- व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा ।
तस्मिन् तनिषेधे । तस्य वाक्यस्य । निषेधयोरिति । मध्य इति शेषः । अथेति । कचिदित्यर्थः । अनुवाद्यत्वं चेति । उभयोरप्यनुवाद्यवं विधेयत्वं चेत्यर्थः । क्वचिदित्यस्यानुषङ्गः । असतेव(?)निरासायाह-एवमपीति । चमत्कारिवाभावेऽपीत्यर्थः । दर्यत इति । उक्तप्रकारजातमिति शेषः । तत्र तेषां मध्ये । प्रथमेति । स्मितमिति पादप्रतिपाद्य इत्यर्थः । अपह्नवेति । निषेधस्य प्रागुल्लेखादिति भावः। उभयोस्तद्रूपानिषेधयोः । अस्य त्रिष्वन्वयः। एतत्पदार्थस्योद्देश्यखादाह-विधेयेति । द्वितीयेति । मुखमिति पादप्रतिपाद्य इत्यर्थः। तुरुक्तवैलक्षण्ये। तदेवाह-वक्तृगतेति । स्तनद्वन्द्वमिति पादप्रतिपाद्यतृतीयावयवस्य द्वितीयेन तुल्यलात्तमुपेक्ष्याह-चतुर्थेति । लतेति पादप्रतिपाद्य इत्यर्थः । पुनःशब्दो वैलक्षण्ये । वाक्यैक्यस्योदाहरणं सप्रकारभेदमाह-वदन इति । अनया रसनया । अमन्त्रा जीवनोपायशून्याः। 'आर्थवमनुवाद्यत्वं च' इत्येक युक्तः पाठः । 'विधेयत्वं च' इत्यपपाठः । अत एवाह-निवेशनेति । आहार्यवनिवे. शफलमाह-तेनेति । तै शितमध्यभागेन यद्विवरं तस्मादुन्मीलन्प्रकाशमान आकाश