________________
२७६
काव्यमाला। . गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं
त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥' . अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति भ्रान्तिमता, विपक्षभूपालादिभिरनेकैर्ग्रहीतृभिर्थमत्वादिभिरनेकैधभैरुल्लेखनात्प्रागुतोल्लेखप्रकारेण च सह संकीर्णोयं संबन्धिषष्ठ्यन्तभेदप्रयुक्तवर्ध्यानेकविधत्वक उल्लेखः । ___ अत्रेदं बोध्यम्-प्रथमनिरूपितोल्लेखप्रकारे 'यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः, यज्ञपुरुष इति याज्ञिकाः, स्वभाव इति लोकायतिकाः, ब्रह्मेत्यौपनिषदा वदन्ति सोऽयमादिपुरुषो हरिः' इत्यादौ तत्तद्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्य चमत्कारजनकतयानुभवसिद्धत्वेनालंकारत्वम् । द्वितीये तु प्रकारे 'यः शिष्टेषु सदयो दुष्टेषु करालः' इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम् । न तु विद्यमानस्यापि ज्ञानांशस्य चमत्कारित्वेनाननुभवात् । चमत्कारनिबन्धनो ह्यलंकारभाव उपमादीनाम् । अत एवास्माभिः 'विषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम्' इति द्वितीय उल्लेखो लक्षितः।
एवं च 'लक्षणद्वयान्यतरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्' इत्याहुः । परे तु 'प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोल्लेखः' इत्यपि वदन्ति ।
विरोधीति चिन्त्यमिदम् । प्रागुक्तोल्लेखेति । इदमपि चिन्यम् । ज्ञानस्यानिबन्धने च ज्ञानपर्यन्तस्य पूर्वोल्लेखस्य कथमप्यत्रासत्त्वात् । नियतव्यञ्जकसामग्र्यभावेनार्थस्यापि तस्यासत्त्वाच्चेति दिक् । इतोऽपि भ्रान्तिरपि संभवतीति चिन्त्यमिति बोध्यम् । विषयाश्रयसहचराणां संबन्धिनामत्र सत्त्वादाह-संबन्धिषष्ठयन्तेति । षष्ठ्यन्तार्थसंवन्धीत्यर्थः । क्वचित्तथैव पाठः । यं प्रकृतं राजानम् । एवमग्रेऽपि । जनकतयेति । इदं ज्ञानं चमत्कारीत्यनुभवाकारः । 'भिन्न प्रकार' इति पाठः । भिन्नवं प्रकारविशेषणमात्रव्यवच्छेद्यमाह-न त्विति । अन्यतरवस्य गुरुत्वादु यत्वाचाह-परे त्विति ।