________________
रसगङ्गाधरः।
२७७ अथोल्लेखस्य ध्वनिःयथा. 'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः ।
विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥' अत्र पूर्वा|दीरितानां चतुर्णां विलोकनकर्तृणां सुखित्वोक्त्या क्रमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्योल्लेखस्य ध्वनिः । संकीर्णस्य यथा- . __'सयमानाननां तत्र तां विलोक्य विलासिनीम् ।
चकोराश्चञ्चरीकाश्च मुदं परतरां ययुः ॥' अत्र ध्वन्यमानया एकैकग्रहणरूपया प्रान्त्या तदुभयसमुदायात्मा उल्लेखः संकीर्णः । न चात्र प्रान्तेरेव चमत्कार इति शक्यापहव उलेखः । अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्कृतेरिहापि सत्त्वात् । द्वितीयस्योल्लेखस्य ध्वनिर्यथा'भासयति व्योमगता जगदखिलं कुमुदिनीविकासयति ।
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥' अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्ती चन्द्रिकात्वसागरत्वरूपानेकविधत्वं रूपकसंकीर्ण ध्वन्यते ।
इति रसगङ्गाधर उल्लेखप्रकरणम् ।
अनल्पेति । बहुतापा इत्यर्थः । गदैकेति । रोगप्रधानेत्यर्थः । समासः प्राग्वत् । विचलदिति । 'विवलत्' इति पाठान्तरम् । अर्थस्तु तुल्यः । स्मयेति । सख्युचिर्नायकोक्तिर्वा । एकैकेति । चन्द्रलेन पद्मलेन च प्रहणेत्यर्थः । शक्येति । नैवात्रोलेखोऽस्तीत्यर्थः । विषयस्य चमदिति । जन्यले षष्ठ्यर्थश्चमत्कृतावन्वेति । व्योमेति गतिकर्म । कुमुदिनीश्वेत्यर्थः । सगरेति । सगरसुतप्रयासमित्यर्थः । सागरकार्यस्य कीयैव संपादितत्वादिति भावः । रूपकेति । चन्द्रसागररूपकेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाश उल्लेखप्रकरणम् ॥
२४ रस.