________________
२७४
काव्यमाला। अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते-यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम् । अयमपि द्विविधः, शुद्धोऽलंकारान्तरसंकीर्णश्च । शुद्धो यथा'दीनवाते दया- निखिलरिपुकुले निर्दया किं च मृद्वी
काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना । लुब्धा धर्मेष्वलुब्धा वसुनि परविपदर्शने कांदिशीका __ राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥ अत्र दीनवातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम् । राजविषयकरतिभावोपस्कारकोऽयमुल्लेखः । यद्यपि चित्तवृत्तिव्यक्तीनामत्रैक्यं नास्ति, तथापि तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम् । यथा वा'कातराः परदुःखेषु निजदुःखेप्वकातराः ।
अर्थेष्वलोभा यशसि सलोभाः सन्ति साधवः ॥' अत्रापि साधवः सन्तीत्यनेन मृता अपि न मृतास्ते, इतरे पुनरमृता अपि मृता एवेत्यर्थाभिव्यक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्कारकोऽयम् ।
'फलोल्लेखखादिव्यवहार इति बोध्यम् । संबन्धिनामिति । विषयरूपाश्रयरूपैकाधिकर. णवृत्तिखेन प्रतीयमानरूपाश्च ये संबन्धिनः । विषयाश्रयसहचारादिरूपा ये संबन्धिन इति यावत् । तेषां मध्ये यस्य कस्यचिद्यदनेकलं तत्प्रसक्तमित्यर्थः । वाते समूहे । मृद्वीति । काव्योक्तिषु कोमलेत्यर्थः । काव्यालापेक्तिमात्रेषु मृद्वीका द्राक्षारूपा। मधुरेति यावदिति कश्चित् । तर्केति । तर्कस्य प्रतीत्यर्थः । वसुनि द्रव्ये । परेति । परस्य परा वेत्यर्थः । कांदिशीति । कस्यां दिशि गन्तव्यमिति धीविशिष्टेत्यर्थः । राजातुं प्रति कव्युक्तिः । अस्यालंकारवायाह-राजेति । कविनिष्ठेत्यादिः । नास्तीति । तथा चैकस्य वस्तुन इत्यंशाभावान्नेदं लक्ष्यमिति भावः । तथा लक्षणे विवक्षाया अभावादाह-यथा वेति। अत्र परदुःखादीनां विषयाणामनेकवात्साधूनामनेकविधवं स्पष्टमुपेक्ष्यालंकारान्तरलमुपपादयति-अत्रापि साधव इति । एवं विषयानेकलप्रयुक्तमुदाहृत्याश्रयानेकलप्रयुक्त