________________
रसगजाधरः।
२६९ द्विधेयान्तरमाकाङ्गितम् । कीरैर्दष्टा इति तु भाव्यम् । जाता इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत । एवं 'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न तावपिकनिनदास्ताडनयोग्याः काकानाम् , येन तद्धिया आलपन्त्यस्तैस्ताड्येरन् । नापि पिकनिनदभ्रम आलपन्तीषु संभवति । संभवन्वा न सादृश्यमूलः । पिकनिकरधियेति तु भाव्यम् । अथ तदालापेषु पिकनिनदबुद्धेरपि तासु पिकबुद्धयुत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यस्वार्थकतृतीयया पिकनिनदधीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति चेत् , नैवम् । तथाप्रतीतेरसिद्धेः । 'चोरबुद्ध्या हतः साधुः' इत्यादौ चोरबुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः । एवं 'दन्तिबुद्ध्या हतः शूरैर्वराहो वनगोचरः' इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेवराहवृत्तिहननहेतुभावावगमः । त्वदुक्तरीत्या दन्तबुद्ध्येतिकृते बोधकदर्थनैव । किं च पिकानां हि कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यैः । तथा प्रथमद्वितीयचरणस्थयोः स्तनपाण्योर्यथाकथंचियवहितमपि जातान्वयमपि त्वदरिमृगदृशामिति षष्ठ्यन्तमन्वेतुं शक्नुयात्, न तु तृतीयचरणस्थे आलपन्त्य इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात् । विभक्तिपरिगतावपि प्रक्रमभङ्गासंष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेव । दीक्षितैस्तु प्रान्त्यलंकारांशमात्रमादायोदाहृतमिति दिक् ।
यत्त्वलंकारसर्वखकृता लक्षितम् , 'सादृश्यावस्त्वन्तरप्रतीतिर्भ्रान्तिमान्' इति, तन्न । प्रागुक्ते संशयालंकारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसङ्गात् ।
इति चिन्त्यमिदम् । विवेति । दष्टवस्येत्यर्थः । तृतीये तमाह-एवमिति । तल्लोपाय कीरदूरीकरणाय । तावदादौ । दोषमूलः संभवतीत्याह-संभवन्वेति । शब्दप्रयोगेति । शब्दे प्रयोगेत्यर्थः । आसत्त्याकाङ्क्षयोः खारसिकयोरभावादाह-यथाकथं. चिदिति।जातान्वयेति । नाप्यरण्यं शरण्यमिति संनिहितेनेति भावः। न त्विति । विभिन्नविभकिवात्स्वस्मिन्खमेदाभावाच्चेति भावः । ननु विभक्तिविपरिणामेनामेदान्वयः सुलभोऽत आह-विभक्तीति । प्रक्रमेति । नन्वेवं दीक्षितैः कथमुदाहृतमत