________________
२७०
काव्यमाला। प्रतीतिपदस्य निश्चयपरत्वे रूपकवित्तावतिप्रसङ्गात्। विषयतावच्छेदकानवगाहित्वेन निश्चयो विशेषणीय इति चेत् , विशेष्यताम् । तथाप्यतिशयोक्तिवितावतिप्रसक्तिरवारितैव । अनाहार्यत्वेन निश्चयविशेषणत्वे पुनरस्मदुक्त एव पर्यवसितिः । मतुबर्था संगतिश्च । तत्र 'कनकद्रवकान्तिकान्तया' इत्यत्र सीतातडितोर्बिम्बप्रतिबिम्बभावः। युतत्वमिलितत्वयोश्च शुद्धसामान्यरूपता ।
'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले ।
धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः ॥' अत्र स्निग्धत्वश्यामत्वयोरनुगामित्वम् ।।
इति रसगङ्गाधरे भ्रान्तिमत्प्रकरणम् । अथोल्लेखः
एकस्य वस्तुनो निमित्तवशायदनेकैर्ग्रहीतमिरनेकप्रकारकं ग्रहणं तदुल्लेखः॥.
'अधरं बिम्बमाज्ञाय मुखमब्जं च तन्वि ते । कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम् ॥ अत्र कीरचञ्चरीकाभ्यामधरवदनयोर्बिम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति । 'धर्मस्यात्मा भागधेयं क्षमायाः' इत्यादि मालारूपके प्रसङ्गवारणायानेकैर्ग्रहीतृमिरित्यविवक्षितबहुत्वकं ग्रहणविशेषणम् । 'नृत्यत्त्वद्वाजिराजिप्रखरखुरपुटप्रोद्धतैयूंलिजालै
रालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते । आह-दीक्षितैरिति । निश्चयपरत्व इति । तथा च संशयसंभावनारूपयोस्तयोर्नातिप्रसङ्ग इति भावः । वित्तौ तज्ज्ञाने । अनाहार्यत्वेनेति । नन्वेवमपि कथमतिशयोक्तावतिव्याप्तिवारणाय । तस्यामनाहार्याभेदज्ञानस्यैव सर्वसंमतवात्प्रागुतत्वाचेति चेत् , चिन्त्यमेतत् । मतुबिति । भ्रान्तिमानिति मतुबित्यर्थः । अत्र धर्मभेदमाहतत्रेति । उक्तोदाहरणानां मध्य इत्यर्थः । धाराधरो मेघः । शिखावला मयूराः ॥ इति रसगङ्गाधरमर्मप्रकाशे भ्रान्तिमत्प्रकरणम् ॥
उल्लेखं लक्षयति-अथोल्लेख इति । ग्रहणं ज्ञानम् । कीराः शुकाः । चञ्चरीका भ्रमराः । नन्वेवं बहुवचनात्रिप्रभृत्येव स्यात् , द्वगेर्न स्यादत आह-अवि. वक्षितेति । नृत्यदिति । राजानं प्रति कवेरुक्तिः । अतुलेति । आलोकालोकम् ।।