________________
रसगङ्गाधरः।
२६७
विप्रलम्भोपस्कारकत्वात् । यद्वा संदेशहरात्संदेशं श्रुत्वतो नायकस्य खमित्रं प्रतिपद्येदं वाक्यं 'अकरुणहृदय-' इत्यादि तदास्मिन्नेव पद्ये सेति पदव्यङ्ग्यायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसङ्गापत्तेः सादृश्यप्रयोज्यत्वमावश्यकम् । लक्षणे चात्रैकत्वं विवक्षितम् । अन्यथा वक्ष्यमाणानेकाहीतृकानेकप्रकारकैकविशेष्यकभ्रान्तिसमुदायात्मन्युल्लेखेऽतिप्रसङ्गापत्तेः । अत एवैकवचनमपि सार्थकम् । । उदाहरणम्'कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
चपलायुतवारिदभ्रमान्ननृते चातकपोतकैर्वने ॥' अत्र चातकगतहर्षोपस्कारकतया तद्गता भ्रान्तिरलंकारः । अत्रवै यदि 'परिफुल्लपतत्रपल्लवैर्मुमुदे चातकपोतकैर्वने' इत्युत्तरार्धं निर्मीयते तदायमेव भ्रान्तिध्वनिः। यच्चाप्पयदीक्षितैर्लक्षणमुक्तम्'कविसंमतसादृश्याद्विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥' इति । 'तत्र कविसंमतसादृश्यप्रयोज्ये विषये आरोप्यमाणानुभवो यत्र वाक्संदर्भ स भ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्त्यर्थ पिहितात्मनीत्युच्यते । न चैतद्युक्तम् । नहि रूपवाक्ये आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते । न चात्रानुभवान्तं प्रान्तेर्लक्षणमग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेरिणाय विषये पिहितात्मनीति विशेषणमिति वाच्यम् । अनुभवत्वघटितस्य भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके कथमप्यप्रवृत्तेः । यदि च रूपकपदं रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते, तदापि विषयताव
महापदादिजन्मा अन्यस्मिन्नन्यावभास उन्मादः' इति मतेनेदम् । नन्वत्र विप्रलम्भजन्यलेनोन्मादस्य कथं तदुपस्कारकलमत आह-यद्वेति । अत एव निश्चय इत्यत्रैकखविवक्षणादेव । उच्यत इति । अयं भावः-तद्विशेषणेनारोप्यमाणानुभवस्य खारसिकस्य कविप्रतिभया कल्पनं विवक्षितम् । तस्यैव विषयपिधानसामर्थ्यादिति । अग्रिम चेति । यत्रेसायुक्तमित्यर्थः । तत्रेति । तद्वाक्यजानुभवस्य तत्रापि सत्त्वादिति भावः ।