________________
रसगङ्गाधरः । . . २६१ यद्यप्यत्रापि वाचकशब्दाभावाव्यङ्गय एव भवितुमर्हति संशयः, तथापि विषयनिरूपणेन स्फुटभावोदितत्वान्न ध्वनिव्यपदेशस्य हेतुः । अपि तु गुणीभूतव्यङ्ग्यप्रभेदव्यपदेशस्य । अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्टः। यत्तु चित्रमीमांसायां संशयध्वन्युदाहरणप्रसङ्गे अप्पयदीक्षिताः
“कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापन्नो वक्षःस्थलमवैक्षत ॥' अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवेक्षतेत्यनेन व्यङ्ग्यत्वात्संदेहालंकारध्वनिरत्रेति। यथा'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
वीक्ष्य बिम्बमनु बिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थ लज्जाशब्दप्रयोगेऽपि तस्याः खविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः" इत्याहुः, तदेतवनितत्त्वविजैरुपहसनीयमेव । __ तथाहि संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थसंबन्धावगाहि ज्ञानं साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्क्षायां वक्षःस्थलावेक्षणेन वक्षःस्थलस्थैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठतीत्यादिरों व्यञ्जनाव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति ।
सीता । विषयेति । आज्ञादीत्यर्थः । व्यङ्ग्येति । व्यङ्ग्यरूपो यः प्रमेदस्तद्रव्यव्यपदेशस्वेत्यर्थः। प्रतिप्रकारं प्रतिसंदेहम् । तत्र ह्याज्ञासंदेहेऽविलनीयलं वनदेवतासंदेहे वनस्थितवं च पृथगुपात्तमिति भावः । कांचिदिति । इदं च पद्यमप्पयदीक्षितमूलपुरुषवक्षःस्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम् । वरदः काञ्चीदेवता विष्णुः । तदिति । संशयेत्यर्थः । तत्र सामान्यज्ञाने । अवेक्षणेनेति। व्यञ्जनार्थवृत्तिरपीति भावः । संशय