________________
२६०
काव्यमाला।
तार्थस्य या धीरनवधारणा' इति प्राचां लक्षणं महता प्रबन्धेन त एवं दूषितवन्तः, तदपि न । साम्यनिमित्तनिश्चयसंभावनान्यतरभिन्ना या धीरिति तदर्थकरणे दोषाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वचनीयम् । उक्तेषूदाहरणेषु सोऽयं संशयालंकारः खशब्दवेद्यत्वाद्वाच्यः । - लक्ष्यो यथा
'साम्राज्यलक्ष्मीरियमृष्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा ।
रामस्य रामामवलोक्य लोकैरिति स्म दोला रुरुहे तदानीम् ॥' अत्र पर्यायेणोभयकोट्यालम्बनतया दोलासादृश्यात्संशयोऽत्र दोलाशब्देन लक्ष्यते । व्यङ्गयोऽयं यथा'तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम् ।
आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ।' अत्र कमलधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः कमलमिदमिदं वेति भ्रमरगतः संशयो व्यङ्ग्यः । न च कमलाभेदबुद्धेभ्रमरप्रवृत्त्युपायतयापेक्षणादिदंपदार्थाभेदबुद्धिर्निरर्थिकेति वाच्यम् । एकपदार्थधर्मिकापरपदार्था भेदबुद्धेरपरपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकत्वेन कमलाभेदबोधसाम्राज्यात् । कमलत्वमेतद्वृत्ति तद्वृत्ति वेति संशयाकारः । सोऽयं संशयध्वनिः।
'आज्ञा सुमेषोरविलङ्घनीया किं वा तदीया नवचापयष्टिः । वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम् ॥'
त्यमिति नियमादिति भावः । त एव अप्पयदीक्षिता एव । अनवधारणेत्यस्य तात्पर्यार्थमाह-निश्चयेति । नन्वेवमन्योन्याश्रयापत्तिरत आह-निश्चयत्वं त्विति । ऋष्यकेतोश्चन्द्रस्य । ऋष्यः कुरङ्गः । रुरुहे आरूढा । आलम्बनतया एतद्रूपधर्मेण । तीर इति । व्याख्यातं प्राक् । मिलदिति । सविकासमित्यर्थः । इदंपदार्थेति । इदंत्वेनेदंपदार्थेत्यर्थः । तथा चेदमिदं वा कमलमित्यौचित्येनानेककोटिकवाभावान्नायं संशय इति भावः । ननु प्रवृत्त्यन्यथानुपपत्त्या तथा कल्प्यम् , सा चान्यथासिद्धेत्याह-एकेति । कमलेत्यर्थः । अपरेति । इदंपदार्थः । पर्यवसितमाह-कमलत्वमिति । ध्वनेरुदाहरणान्तरं खण्डयति-आशेति । सुमेधुर्मदनः । सुमं पुष्पम् । तदीया मदनीया । इयं