________________
रसगङ्गाधरः ।
२५९ दिना संशयधर्मी किरणत्रातोऽध्यवसीयत इति । अत्र विचार्यते – सिन्दूरैः परिपूरितं किमथवेति यद्येतावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जगन्मण्डलधर्मिकः संशयः शब्दात्प्रतीयते तस्मिंश्च संशये किमिदं सिन्दूररजो वा स्यात्, आहोखिल्लाक्षारसः, उताहो कुङ्कुमद्रव इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते । यथा पुरोवर्तिनि तुरगे स्थाणुर्वा पुरुषो वेति . संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये । एवं च सूर्यकिरणधर्मिकः संशयो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूल विभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति कुत्राध्यवसानमूलता संशयस्य । एतेनाध्यवसानमूलतां संशयस्य निरूपयतो विमर्शिनीकारस्योतिरपास्ता ।
अप्पयदीक्षितास्तु
‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' इत्यत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारस्तु वर्णनीयवनितास्रष्टृत्वमेकमेवेत्यनेककोटिकत्वाभावाद्विरोधेन परस्परप्रतिक्षेपकतया निबद्धानेक कोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः । तन्न । अत्र हि अस्याः सर्गविधौ यः प्रजापतिरभूत्स किं नु चन्द्रः, किं नु मदनः, किं वा नु वसन्त इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः । न चात्र चन्द्रादिधर्मिकः संशयो युक्तो वक्तुम् । एवं च प्रजापतेः प्रथमोद्देशो न स्यात् । यदपि, 'साम्यादप्रकृ
इति । तावदादौ । इदं किरणजातम् । अनपेक्षत्वे हेतुमाह —- व्यञ्जनेति । तर्हि कुत्र तदपेक्षा तत्राह - अपेक्षते चेति । एवं च रूपकमूल एवायमित्यध्यवसानमूलः संशयः खपुष्पायमाण इति भावः । तदाह - कुत्रेति । अस्या इति । मालतीमाधवे मालतीवः र्णनमिदम् । मासो वसन्तः । वनितास्रष्टृत्वं प्रजापतिशब्दबोध्यम् । अभावादित्यव्याप्तौ हेतुः । संशयलक्षणमाह - विरोधेनेति । हि यतः । अस्या मालत्याः । तदुपपादनं खण्डयति न चात्रेति । एवं चेति । चो ह्यर्थे । यत एवं सतीत्यर्थः । विधेयस्य पाश्चा१. विक्रमोर्वशीये प्रथमेऽङ्के उर्वशीवर्णनमिदम्.