________________
२५८
काव्यमाला।
तृतीया यथा'चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः ।
गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥' एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालंकारव्यपदेशः । एवं च
'तं दृष्टवान्प्रथममद्भुतधैर्यवीर्य__ गाम्भीर्यमक्षणविमुक्तसमीपजानिम् । वीक्ष्याथ दीनमबलाविरहव्यथार्थ
रामो न वायमिति संशयमाप लोकः ॥' इत्यत्रापि सत्यपि चमत्कारे सादृश्यमूलत्वाभावान्न संशयस्यालंकारत्वम् । एवमारोपमूलोऽयं संदेहालंकारः । अध्यवसानमूलोऽपि दृश्यते । यथा'सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालितं
लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन्महीमण्डलम् । संदेहं जनयन्त्रणामिति परित्रातत्रिलोकस्त्विषां
प्रातः प्रातरुपातनोतु भवतां भव्यानि भासांनिधेः ॥' अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगतकङ्कणादिरिव मुख्यतयालंकृतिव्यपदेश्यः । अत्र च विवक्षितविवेचने क्रियमाणे किरणवाते सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति । स च न सारोपः । विषयविषयिणोस्तदनुकूलविभक्तेरभावात् । अतः सिन्दूरत्वा
विना मध्ये प्रतिपादनात्तद्गर्भवम् । अत एव तृतीयाद्भेदः । कपिर्हनूमान् । वियो. गिनीति । श्रीरामचन्द्रवियुक्ता सीतेत्यर्थः । नन्वेषूदाहरणेषु संशयस्यैव प्राधान्येनान्यानपस्कारकत्वात्कथमलंकारत्वमत आह-एग्विति । तथा च तद्वत्तद्योग्यतामात्रेण गौणखद्यवहार इति भावः । एवं च उक्तरीत्या संशयलक्षणपर्यवसाने च । तं श्रीरामम् । प्रथमं संयोगदशायाम् । अद्भुतेति बहुव्रीहिः । अक्षणेति । न क्षणं विमुक्ता समीपप्रदेशाज्जाया सीता येनेत्यर्थः । अथ रावणकृतसीतापहारोत्तरम् । अस्य संशयस्य 'विप्रलम्भरोषवत्त्वादाह-सत्यपीति । त्रिविधस्याप्यस्य द्वैविध्यमाह-एवमिति । द्वयोरुपादानादिति भावः । भासांनिधेः सूर्यस्य । पूर्वतो मेदान्तरमाह-अयं चेति । नन्वत्र महीमण्डलस्योपादानात्सारोपखमेवात आह-अत्र चेति । विवेति । तात्पर्यार्थेत्यर्थः । नन्वेवमपि किरणव्रातस्योपादानात्सारोपवमेवात आह-विषयेति । तदिति । आरोपेत्यर्थः । तथा च तुल्यलेनानुपादानमिति भावः । उपसंहरति-अत