________________
रसगङ्गाधरः।
मानविरोधकेति । उत्प्रेक्षाव्यावृत्तये समबलेति समानभासकसामग्रीत्वार्थकम् । एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थ नानेति । स्थाणुर्वा पुरुषो वेति लौकिकसंशयनिवृत्तये रमणीयेति । चमत्कारिणीत्यर्थः । एतच्च विशेषणं सामान्यालंकारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम् । एतद्विशेषणद्वयस्य सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव । यद्वा 'सादृश्यहेतुकानिश्चयसंभावनान्यतरभिन्ना धी रमणीया संशयालंकृतिः' ।
सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा । आद्या यथा___ 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमाल: ।
रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥ द्वितीया यथा'तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छायाविलोकनकौतुकै
नवसतिमिः कैः कैरादौ न संदिदिहे जनैः ॥'
तत्रापि तयोस्तुल्यबलस्य सत्त्वादत आह-समानेति । तत्र तु विधेयांशे भासकसामग्री उत्कटेति भावः । नन्वेवं नानेतिमात्रं व्यर्थमत आह-एतदेति । भासमानेति समबलेत्येतदित्यर्थः । अनेकेति । अनेकधर्मकस्य संशयस्येत्यर्थः । एतदिति । रमणीयखोपस्कारकत्वद्वयेत्यर्थः । ननु संशये विरोधो न भासते। मानाभावात् । किं खविरोधित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कथमुक्तलक्षणमत आहयद्वेति । अन्यतरत्रोभयभेदसत्त्वात्तथोक्तो तत्रातिप्रसङ्गापत्तेराह-अन्यतरेति । तथा च संभावनाभिन्नले सति निश्चियभिन्नलमित्यर्थलाभान्न रूपकोत्प्रेक्षादावतिप्रसङ्ग इति भावः । तत्रालिनॆत्रं वेति वाक्याद्विरोधभानवादिमतेऽलिखवानयमलिखविरुद्धनेत्रत्ववानिति विशिष्टवैशिष्ट्यन्यायेन, एकत्र द्वयमिति न्यायेन वा बोधः । अलिशब्दस्य च वाशब्दसमभिव्याहारे उभयत्रान्वयः । व्युत्पत्तिवैचित्र्यात् । केचित्तु वाशब्दद्वयबलादलिखविरुद्धनेत्रलवानयं नेत्रसविरुद्धालिखवानिति बोधमाहुः । तदभानवादे तु अलिखवानयं नेत्रत्ववानिति बोधः । समुच्चये वेतन्मतेऽविरोधमानमगीकार्यमिति दिक् । मरकतेति । व्याख्यातं प्राक् । इति पूर्वार्धोक्तः । प्रपेदे प्राप्तः । तरणीति । कालिन्दीत्यर्थः । सा तज्योत्स्ना । इयं तु मधुरेति भावः । वसतिर्वासः । अत्र निश्चयस्य