________________
काव्यमाला ।
नवतीनयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः । केचित्तु “ कचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयावतिष्ठते तत्रारोप्यमाणपरिणामः । यथा - ' वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ' । अत्र वदनमिन्द्वभिन्नतयावतिष्ठते । केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगात् । क्वचिच्चारोप्यमाणः खात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयावतिष्ठते । तत्र विषयपरिणामः । यथा - ' वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति । अत्रेन्दुर्वदनाभिन्नतयावतिष्ठते । केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदकविषयितावच्छेद कान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात् । अत एवोक्तम् — 'तद्रूपकमभेदो य उपमानोपमेययोः' इति । तस्मान्न रूपकात्परिणामोऽतिरिच्यते " इति वदन्ति । अथ बोध:
२५२
हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव धीः । तथा श्रावं श्रावं वचःसुधामित्यत्र विशेषण समासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वचः सुधामिति रूपके तु वचोनिष्ठा भेदप्रतियोगिनीं सुधामिति बुद्धिः । एवं च ' वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति ' इति व्यस्त परिणामे 'वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ' इति व्यस्तरूपके च बोधवैलक्षण्यम् ।
तथा
'शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु । हृदये धारणाद्यस्य न पुनः खेदसंभवः ॥'
बोध्यम् । वदनस्येति । तस्य जलभिन्नत्वादिति भावः । इन्दोरिति । तस्योद्दीपकलेन तज्जनकत्वादिति भावः । तल्लक्षणेति । रूपकलक्षणेत्यर्थः । तदेवाह - अत एवेति । उक्तं मम्मटेनेति भावः । केचिद्वदन्तीत्याभ्यामरुचिः सूचिता । चमत्कृतिनिदानत्वेनालंकारमेद इति सिद्धम् । तेनान्यत्रेवात्रापि मेद एवोचित इति । परिणामे वचः सुधामित्यंश इत्यर्थः । सुधामितीत्यत्र धीरत्वस्यानुषङ्गः । एवमिति । प्राग्वदित्यर्थः । बोधवैलेति । अनुयोगित्वमुखत्वप्रतियोगित्वकृतमिति भावः । एवमग्रेऽपीत्याह - तथेति । यस्य वागमृतस्य । स्थलान्तरे बोधमाह - तथेति । तावदादो । तस्य च