________________
२५३
रसगङ्गाधरः ।
इति परिणामे शृण्वति विहाय पिबेति कृते तत्रैव रूपके, 'विद्धा मर्मणि वाग्बाणैघूर्णन्ते साधवः खलैः । सद्भिर्वचोमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ॥' इति रूपके च बोधव्यवस्थितिः । तथा 'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन' इति व्यधिकरणपरिणामेऽभेदस्य तृतीयार्थत्वाल्लसदाननाभिन्नही नेतरचन्द्रयुक्तेति धीः, मीनवती नयनाभ्यामित्यत्र तु सरसीतादात्म्यारोपो बाधकाभावात्तावत्सिद्धः । तस्य च मीनयोर्न - यनाभेदारोपेणासमर्थनान्नयनयोर्मींना भेदारोपो मृग्यः । स च तृतीयायाः प्रकृत्यर्थाभेदार्थकतायां न संभवतीति यथाकथंचित्तस्याः प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम् । तेन नयननिष्ठा भेदप्रतियोगिमीनयुक्तेति घीः । एवं चारोप्यमाणे विषयप्रतियोगिका भेदस्याभानान्न परिणामः, अपि तु रूपतमेव । इयमेव सरणि: ' नद्या शेखरिणे दृशा तिलकिने - ' इति प्रागुक्ताप्पयदीक्षितदत्तोदाहरणे 'वचोभिरुपायनं चकार -' इत्यलंकासर्वखोदाहरणे च बोध्या । यदि पुनरारोप्यमाणे यथाकथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोगस्तदा 'प्रवृतोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति तदुदाहृतरूपकस्य परिणामतापत्तिः प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिकू ।
सुन्दर्यां सरसीतादात्म्यस्य । प्रकृत्यर्थाभेदेति । प्रकृत्यर्थप्रतियोगि कामेदेत्यर्थः । विभक्त्या संसर्गबोधनस्य प्रकृत्यर्थप्रतियोगिकस्यैव व्युत्पत्तिसिद्धत्वेन तदसंभवादाह - यथा • कथंचिदिति । अत्र मीनवती नयनाभ्यामित्यत्र । उक्तप्रकारेणायमेव बोधोऽन्यत्रेत्याह—इयमेवेति । उदाहरणे च बोध्येति । परेतु " पूर्वपदार्थ प्रधानमयूरव्यंसकादिसमासेन सुधाप्रतियोगिकामेदवद्वच इत्येव बोधः । रूपके मीनवती नयनाभ्यामित्यत्र सुन्दर्यां सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधारणो धर्मः । तस्य च सुन्दर्यामभावात्प्राप्तबाधबुद्धिस्थगनाय नयनाभ्यां मीनवतीति सुन्दरीविशेषणम् । सरस्यां च मीनवत्त्वं प्रसिद्धमेव । एवं च सुन्दर्या मीनवत्त्वसंपादनरूपप्रकृतकार्योपयो - गिता मीनानां नयनात्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगि कामेदवन्मीनवतीत्येव बोध इति दिक् । 'पादाम्बुजं भवतु नो विजयाय मञ्जु' इत्यादौ रूपकोपमयोः
२२ रस•