________________
१०
काव्यमाला ।
कमपीति चमत्कृतिभूमिम् । तेनातिगूढस्फुटव्यङ्ग्ययोर्निरासः । अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय गुणीभावितात्मानाविति खापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम् ।
उदाहरणम् –
'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् । दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥'
"
अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहः स्थानादेरुद्दीपनस्य च विभावस्य तादृशनिरीक्षणादेरनुभावस्य त्रपौत्सुक्यादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यते । आलम्बनादीनां स्वरूपं वक्ष्यते । न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायिकेच्छाया एव व्यङ्ग्यत्वमत्रेति वाच्यम् । मनोरथान्सफलीकर्तुमसमर्थेत्यनेन मनोरथाः सर्वेऽस्या हृदि तिष्ठन्तीति प्रतीतेः । खशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात् । न च मनोरथपदेन मनोरथत्वाकारेण सामान्येच्छाया अभिधानेऽपि चुम्बेयमिति विषयविशेषविशिष्टेच्छात्वेन व्ययत्वे किं बाधकमिति वाच्यम् । चमत्कारो न स्यादित्यस्यैव बाधकत्वात् । न हि विशेषाकारेण व्यङ्ग्योऽपि सामान्याकारेणाभिहितोर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्टे । कथमपि वाच्यवृत्त्य
Sपि । निरास इति । असुन्दरस्येत्यपि बोध्यम् । गुणीभावितात्मानावित्यनेनाप्यस्य निरास इति ध्वनयितुं द्वयोरेवोक्तिः । एवं संदिग्धप्राधान्यतुल्यप्राधान्यकाक्वाक्षिप्तानामपि बोध्यम् । स्वापेक्षया शब्दार्थापेक्षया । सविधेऽर्थाद्दयितस्य । कारणसत्त्वेऽपि कार्याभावादहो इत्याश्वर्ये । रह एकान्तम् । त्रपौत्सुक्यादेरिति । दरेत्यनेन त्रपा व्यङ्ग्या, निरीक्षणेन चौत्सुक्यमिति बोध्यम् । संयोगात्संबन्धात् । रतिरिति । नायिकाय़ा इति शेषः । शयित इति । कर्तरि भूते क्तः । ' तदास्याननाम्बुजम्' इति पाठः । एव उक्तव्यवच्छेदे । खशब्देनेत्यस्य व्याख्या मनोरथेति । सामान्येति । मनोरथत्वेत्यर्थः । तथा च वाच्यस्याव्यङ्ग्यत्वमिति भावः । सामान्येनेत्यस्य व्याख्या मनोरथेति । यद्वा सामान्येनेच्छात्वेन । अवच्छिन्नत्वं तृतीयार्थः । चमत्काराभावे हेतुमाह -नहीति । तत्र हेतुमाह- कथमपीति । सामान्यरूपेण विशेषरूपेण चेत्यर्थः । एवं च ध्वनिविशेष एवैतद्बोध्यम् । स्पष्टश्चायमर्थो गूढाख्यगुणीभूतव्यङ्ग्यनिरूपणे पञ्चमोलासे रसदो