________________
रसगङ्गाधरः ।
११
नालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालंकारिकैः स्वीकारात् । चुम्ब नेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यञ्जने चुम्बयामीति शब्दबलाचुम्बनेच्छावदचमत्कारित्वाच्च । एवं त्रपाया अपि न प्राधान्येन व्यङ्गयत्वम् । अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात् । न च दरमीलन्नयनत्व विशिष्टनिरीक्षणं विधेयमिति नानुवाद्यतावच्छेदकत्वं तस्या इति वाच्यम् । एवमपि नयनगतदरमीलनस्य तत्कार्यत्वेऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात् । त्रपाया एव मुख्यत्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः । वाच्यवृत्त्या रतेरनुभावे निरीक्षणे पाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात् ।
यथा वा
'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ॥' अत्र घूर्णितासीदित्यनेनासमीक्ष्यकारिन्किमिदमनुचितं कृतवानसीत्यर्थ संवलितोऽमर्षश्चर्वणाविश्रान्तिधामत्वात्प्राधान्येन व्यज्यते । तत्र शब्दोऽर्थश्व
गुणः ।
I
'षनिरूपणे सप्तमोलासे च । व्यङ्ग्यस्य वाच्यीकरणे वमनाख्यदोष इति प्राञ्चः । नन्वत्र पक्षे यदेवोच्यते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथोच्यत इत्यादि पर्यायोक्तप्रकरणस्थमूलग्रन्थविरोधोऽत आह— चुम्बनेच्छाया इति । संशयालंकारनिरूपणे च स्फुटतरं निरूपयिष्यत एव ग्रन्थकृता । एवस्तदन्यथात्वेन तत्त्वव्यवच्छेदे । तदव्यञ्जने रत्यव्यजने । एवमिच्छाया इव यथाकथंचित्तत्त्वसत्त्वादाह - प्राधान्येनेति । तस्यां त्रपायाम् । एवमग्रेऽपि । मुख्येति । मुख्यतया वाक्यतात्पर्यविषयत्वायोगादित्यर्थः । तत्कार्येति । त्रपाकार्येत्यर्थः । मात्रपदेन तदन्यव्यवच्छेदः । ननु मीलन्नयनात्वमेव विधेयमास्तामत आह— पाया इति । त्रपाजनकतया निरीक्षणस्योपयोगादाह-अनतीति । ननु वैपरीत्येन निरीक्षणविशिष्टदरमीलन्नयनात्वमेव विधेयमास्तामत आहवाच्येति । 'भावप्रधानमाख्यात' मिति सिद्धान्तादिति भावः । तस्यां रतौ । तस्यास्त्रपायाः । गुरुमध्येति । श्वश्वादिसमीपप्रदेशोपविष्टा । कमलमुकुलेन मन्दं नितरां हता । अत एव घूर्णनं भ्रमणं तादृशी सा मामवलोक्य दरेति नतेति च यथा स्यात्तथा घूर्णितासीदित्यन्वयः । मन्दत्वफलं दरेति । गुरुमध्यगतत्वान्नतेति । नायकोक्तिरियं सखायं प्रति । कृत